पृष्ठम्:अलङ्कारमणिहारः.pdf/३६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
356
अलंकारमणिहारे

 हे वृषगिरिमाणिक्येति संबोधनम् । सुषमायाः असितिमा नैल्यम् ॥

 यथावा--

 इदमच्युतसुदतीमणिपदमिति वदति श्रुतिर्जलजमुचितम् । मृदुलस्मेरमनोज्ञे पदलक्ष्मीर्यदिह दृश्यते तस्याः ॥ ६२१ ॥

 अच्युतसुदतीमणेः श्रियः पदं चरणं स्थानं च । पदलक्ष्मीः चरणशोभा ॥

 यथावा--

 सिंहळखनिजनितमणीसंहतिषु दशास्यपुरनिशाचर्यः । संहननरुचं तव रघुसिंह समीक्ष्याधुनाऽपि मुह्यन्ति ॥ ६२२ ॥

 अत्राद्येषु 'दिनविगमसमय’ इत्यादावुदाहरणानां षट्के उपमेये उपमानधर्मारोपः । तत्रापि पूर्वत्रिके शुद्धः अन्तिमे त्रिके ‘त्वामस्तुत्वा’ इत्यादौ श्लेषसंकीर्णः । अनन्तरं 'तरुणतमाल' इत्यादौ उदाहरणत्रये उपमाने उपमेयधर्मारोपः । तत्राप्यन्तिमे' सिहळखनि’ इतिपद्ये निदर्शनया भ्रान्तिमदलंकारो व्यज्यत इति वैलक्षण्यं बोध्यम् । उभयत्राप्यन्यधर्मस्यान्यत्रासंभवेन तत्सदृशधर्माक्षेपादौपम्ये पर्यवसानं तु तुल्यमेव । इमां पदार्थवृत्तिनिदर्शनां ललितोपमेति व्यवाहार्षीज्जयदेवः ॥

 अलंकारसर्वस्वकारस्तु—

त्वत्पादनखरत्नानां यदलक्तकमार्जनम् ।
इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः ॥