पविधुरवृथालापविधायिन्युपमेये उपमानभूतखरधर्मारोपः। चमत्कारान्तरं च पूर्ववदेव ॥
यथावा--
सुमनोरमोहिमान्यामलमूर्तिरसौ शिवाभ्युदयहेतुः । भुजगाधिराजशैलो भजते हिमवन्महीभृत२शैलीम् ॥ ६१९ ॥
सुमनोरमः अतिमनोज्ञ । रमयतीति रमः पचाद्यच् । सुमनसां विबुधानां रम इति वा शेषाद्रिपक्षे । हिमवत्पक्षे तु शोभना मनोरमा तदभिधा जाया यस्य स तथोक्तः,
पुरा मनोरमा नाम सुमेरोरभवत्सुता । |
इत्युक्तेः । अहिभिः मान्या अमला मूर्तिर्यस्य स तथोक्तः तस्य भुजगाधिराजरूपत्वादिति भावः । यद्वा-हीति भिन्नं पदं प्रसिद्ध्यर्थकम् । मान्या अमला मूर्तिर्यस्य स तथोक्तः । पक्षे हिमान्या हिमसंहत्या अमला विशदा मूर्तिर्यस्येति । शिवानां कल्याणानां शिवायाः उमायाश्च अभ्युदयस्य उपचयस्य जन्मनश्च हेतुः । अत्राप्युपमानधर्मस्योपमेये आरोपः पूर्ववदेव श्लेषोत्तम्भितत्वं च ॥
यथावा--
तरुणतमालवियत्तलमरकतजलनिधिवलाहितशिलासु । सुषमासितिमा भवतो वषगिरिमाणिक्य विहरति स्वैरम् ॥ ६२० ॥