पृष्ठम्:अलङ्कारमणिहारः.pdf/३५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
348
अलंकारमणिहारे

प्रसङ्गः । निदर्शनायां तु वक्ष्यमाणोदाहरणेषु अभिजानन् वेत्तीत्यादिक्रिययोर्गुणभूतयोर्बिम्बप्रतिबिम्बभावे सत्यपि तादृशक्रियानिरूपितप्रधानभाववतोः कर्त्रोर्बिम्बप्रतिबिम्बभावानापन्नतया तादृशकर्तृनिरूपितगुणभाववत्योरभिज्ञानवेदनादि क्रिययोरार्थाभेदप्रतीतेर्भविष्यति लक्षणानुगमः। इदं च श्रौत्या निदर्शनाया लक्षणम् । आर्थीसाधारणं तु लक्षणं ललितालंकारप्रकरणे प्रदर्शयिष्यते ॥

 यथा--

 नित्यं परमात्मानं प्रत्यगभिन्नं भवन्तमभिजानन् । सत्यं फणिशैलपते भृत्याभेदेन वेत्ति सम्राजम् ॥ ६०३ ॥

 अत्र परमात्मनः प्रत्यगात्मभेदेन ज्ञानं सम्राजो भृत्याभेदेन ज्ञानं चाभिन्नमिति तत्सादृश्यमूला धीः ॥ ६०३ ॥

 यथावा--

 तव महिमानमनन्तं वेदितुमिच्छन् हृदा परिच्छिद्य । कक्षेऽन्तरिक्षमखिलं काङ्क्षति परिवेष्ट्य हन्त निक्षेप्तुम् ॥ ६०४ ॥

 अत्र-

यदा चर्मदवाकाशं वेष्टयिष्यन्ति मानवाः ।
तदा शिवमाविज्ञाय दुःखस्यान्तं निगच्छति ॥

इति श्रुतिच्छाया गृहीता । अत्रानन्तस्य भगवन्महिम्नो मनसा परिच्छिद्य वेदनेच्छा अन्तरिक्षस्य कटादिवत्परिवेष्ट्य कक्षनिक्षेपणेच्छा चाभिन्ने ॥ ६०४ ॥

 यथावा--

 त्वामविगणय्य योऽन्यत्तामरसविलोचनाश्रयेद्दै-