पृष्ठम्:अलङ्कारमणिहारः.pdf/३५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
346
अलंकारमणिहारे

 वैधर्म्येण यथा--

 मरुदात्मंभरिगिरिपतिवरदानादेव देहिनो विभवः । शरदागमं विना कः करदायी स्याद्विधुप्रसादस्य ॥ ६०० ॥

 विधुप्रसादस्य इन्दुप्रसन्नतायाः । करदायी हस्तालम्बवितरीता ॥

 यथा वा--

 तावद्भवः प्रभविता यावद्भगवन्न नेत्रपात्रमसि । सौपर्णमन्त्रवर्णे कर्णोद्गीर्णे न पन्नगत्रासः ॥ ६०१ ॥

 अत्राद्योदाहरणे प्रस्तुतवाक्यार्थगतयोर्वरदानविभवयोः, द्वितीयोदाहरणे भवप्रभवितृत्वभगवत्कटाक्षपात्रताभावयोश्च वैधर्म्येण शरदागमविधुप्रसाददानाभावौ पन्नगत्रासाभावसौपर्णमन्त्रकर्णगोचरत्वे च यथाक्रममुत्तरवाक्ये प्रतिबिम्बतया निरदेशिषाताम् ॥

 यथा वा--

 भजतां ददाति जगतां भवती लोकोत्तरं फलं सकलम् । अहिशैलमणिवधूमणि न हि मल्लीसुममसौरभं सूते ॥ ६०२ ॥

 इत्यत्रापि वैधर्म्येण दृष्टान्तो द्रष्टव्यः । 'अत्र दृष्टान्तालंकारमहिम्नैव बिम्बप्रतिबिम्बभावेन प्रतीयमानमुपमानोपमेयभावमनादृत्य दृष्टान्तोदाहरणनिदर्शनादिशब्दाः कविना न प्रयोक्तव्याः पौनरुक्त्यापत्तेः ’ इत्येकावळीकारः। अत एव--