पृष्ठम्:अलङ्कारमणिहारः.pdf/३४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
342
अलंकारमणिहारे

न्दम् । नोन्मज्जति खलु पङ्कं गङ्गायां विमलतरतरङ्गायाम् ॥ ५९० ॥

 यथावा--

 उदधिसुते त्वामन्तर्निदधानं मम विभाति हृदयाब्जम् । निष्कासितमुक्तामणिशुक्तिपुटं नैव जात्वपि समिन्धे ॥ ५९१ ॥

 नन्विदं व्याहतं यद्वैधर्म्येणोपमेति । । साधर्म्यरूपत्वात्तस्या इति चेत्सत्यं, वैधर्म्येणोपन्यस्तेन मृगमदपरिमळभरमित्यादिवाक्यार्थेनाक्षिप्तस्य अपितु ज्ञातार एव जानन्तीति वाक्यार्थस्योपमानत्वेन विवक्षणात् । आमुखे वैधर्म्यप्रतीतावपि साधर्म्य एव पर्यवसानान्न दोषः । वैधर्म्येणेत्यस्य वैधर्म्यद्वारेत्यर्थः ॥

 अत्र साधारणधर्मस्य वस्तुप्रतिवस्तुभावकथनेन तदितरपदार्थानां बिम्बप्रतिबिम्बभावो घटनाया आनुरूप्यं च विवक्षितम् । अन्यथा--

खलास्तुकुशलास्स्वीयहितप्रत्यूहकर्मणि ।
निपुणाः फणिनः प्राणानपहर्तुं निरागसाम् ॥

 इत्यत्रासंष्ठुलवाक्यार्थेऽपि प्रतिवस्तूपमा स्यात् । अत्र हि खलफणिनोः प्राणहितयोश्च सत्यपि बिम्बप्रतिबिम्बभावे हरणप्रत्यूहकरणयोर्नाशप्रागभावपर्यवसितयोरनानुरूप्यान्न बिम्बप्रतिबिम्बभावः । यद्वा-- अस्त्वत्र प्रतिवस्तूपमा, परंतु पूर्ववाक्यार्थघटकानां हितप्रत्यूहकर्मणीति नामार्थविभक्त्यर्थादीनामुत्तरवाक्यार्थघटके प्राणानपहर्तुमित्यत्राभावेनासंष्ठुलतालक्षणस्य वाक्यार्थसामान्यदोषस्य जागरूकत्वादचमत्कारिण्येव, दुष्टोपमादिवत् ।