इति यावत् । यद्वा--अहरहर्गच्छन्त्य इति न सुषुप्तिकालिकं गमनमुच्यते, अपितु अन्तरात्मत्वेन सदा वर्तमानस्य दहराकाशस्य हिरण्यनिधिवत्परमपुरुषार्थभूतस्य उपर्युपरि अहरहर्गच्छन्त्यः सर्वस्मिन्काले वर्तमानास्तमजानत्यस्तं न विन्दन्ति न लभन्त इत्यर्थः। उदाहरणे मूढा इत्यस्यानृतेन प्रत्यूढा इत्यर्थः । अत्र वाक्यद्वये प्राप्त्यभावरूपस्साधारणधर्मश्शब्दभेदेनोपात्तः ॥
ननु ‘क्षाळयाते वेङ्कटाचल' इत्युदाहृतार्थावृत्तिदीपकाद स्थाः किं वैलक्षण्यमितेि चेन्न, प्रस्तुतानेकधर्मिगतैकधर्मनिर्देशः अप्रस्तुतानेकगततथाविधधर्मनिर्देशो वा अर्थावृत्तिः । इयं तु प्रस्तुताप्रस्तुतोभयनिष्ठतथाविधधर्मनिर्देशरूपेत्यस्यास्ततो वैलक्षण्यसद्भावात् । किंच-अर्थावृत्तिदीपकं वाक्ययोरर्थस्यावृत्तावेव भवति, सा च साधर्म्य एव न वैधर्म्ये । इयं तु वैधर्म्येणापि भवतीति ततोप्यस्या भेदः । तदेतदुक्त कुवलयानन्दे–‘“ अर्थावृत्तिदीपकं प्रस्तुतानामप्रस्तुतानां वा' भवति । प्रतिवस्तूपमा तु प्रस्तुताप्रस्तुतानामिति विशेषः । अयं चापरो विशेषः—आवृत्तिदीपकं वैधर्म्येण न सम्भवति प्रतिवस्तूपमा तु वैधर्म्येणापि दृश्यते” इति ॥
यथा--
फणिगिरिपतिगुणपरिमळमभिजानन्ति हि तदेकनिष्णाताः। मृगमदपरिमळभरमिह विदन्ति न ग्रामसूकरा जातु ॥ ५८९ ॥
यथावा--
मज्जति भवत्क्षमायां नाथामन्दं मदागसां बृ-