पृष्ठम्:अलङ्कारमणिहारः.pdf/३४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
337
आवृत्तिदीपकसरः (१८)

 मम चेतः कर्तृ । वातंधयगिरिजातं किमप्यद्भुतं सर्वाश्चर्यनिधिं श्रीनिवासमित्यर्थः । धावति स्मरतीति यावत् । महाम्भोवहधाम महावारिवाहनीलमित्यर्थः । तदद्भुतं भगवानित्यर्थः । स्मरन्तं मां बहुधा अवति प्रीणयति रक्षति च । अत्रापि पदमात्रावृत्तिः । आद्योदाहरणद्वये अभङ्गश्लेषेण अनन्तरोदाहृत्योस्सभङ्गश्लेषेण निर्व्यूढमिदम् ॥

 यथावा--

 योऽन्तर्धत्ते कमलाकान्तं काकोदराद्रिभास्वतम् । अन्तर्धत्ते तस्य च संतमसं भवमयं स हि नितान्तम् ॥ ५८२ ॥

 यः पुमान् अन्तः मनसि धत्ते ध्यायतीत्यर्थः । तस्य पुंसः भवमयं संतमसं सः भगवान् अन्तर्धत्ते पिदधाति विनिवर्तयतीति यावत् । अत्रापि पदस्यैवावृत्तिः ॥

 अर्थावृत्तिदीपकं यथा--

 क्षालयति वेङ्कटाचलपालयितुरघानि सपदि नामसुधा । मार्जयति कुजनसन्नुत्यार्जितमूर्जितमपीह दौर्जन्यम् ॥ ५८३ ॥

 अत्र क्रियापदभेदेऽपि तदर्थस्य शोधनस्याभेदादर्थावृत्तिदीपकमिदम् ॥

यथावा--

 यत्रेन्धे वनमाला चकास्ति कौस्तुभमणिर्लसति च श्रीः। कियदिव तद्भाग्यं स्यात्पङ्कजमालाऽपि तत्र दीव्यति चेत् ॥ ५८४ ॥

 ALANKARA
43