शरणगतानामन्तःकरणसुधाकिरणदृषदपि द्रवति ॥
अत्र द्रवतीति पदस्यैवावृत्तिः न तु तदर्थस्य, आद्यस्य धावतीति अन्त्यस्यार्द्रा भवतीत्यर्थयोर्भदात् ॥
यथावा--
स्वैरं यशो विसृमरं स्मेरं भवतो विधूयते शौरे । स्फारं यशोप्यसुहृदां दूरंदूरं विधूयते दिक्षु ॥
अत्रापि विधूयते इत्यनयोः विधुरिवाचरतीति प्रकम्प्यत इति चार्थभेदादिदमपि पदावृत्तिदीपकम् ॥
यथावा--
बहुशो धयति स्वामिन्नहिशैले धन्य एव तव तीर्थम् । बहु शोधयति च तमिमं कलशोदधिजाधिनाथ तत्तीर्थम् ॥ ५८० ॥
हे स्वामिन् ! अहिशैले धन्यः पुण्यवानेव तव तीर्थं त्वद भिषेकतीर्थमित्यर्थः, बहुशः बहु धयति पिबति । 'घेट् पाने' तमिमं तीर्थधातारं जनं तत्तीर्थं कर्तु बहु यथा स्यात्तथा शोधयति शुद्धं करोति अपास्तसमस्तांहस्ततिं तनोतीत्यर्थः । अत्रापि पदमात्रावृत्तिः ॥
यथावा--
चेतो मम बहु धावति वातंधयगिरिजमद्भुतं किमपि । बहुधाऽवति च महाम्भोवहधाम तदद्भुतं स्मरन्तं माम् ॥ ५८१ ॥