मां त्वां द्रष्टुं त्वत्कथां श्रोतुं त्वन्नाम वक्तुं चाभीप्सन्तमिति भावः दृक् चक्षुरिन्द्रियं एकतः स्वविषये इत्यर्थः । एवमुत्तरत्रापि । शिष्टं स्पष्टम् । अत्र कर्षणक्रियातद्वाचकपदयोरुभयोरप्यावृत्तिः । इदं धूर्तबहुसपत्नीकदर्थितसाध्वीदयितवृत्तान्तसमारोपरूपसमासोक्त्या संकीर्णं, पूर्वं तु रूपकेण ॥
यथावा--
प्रसजेद्यदि पापं नः प्रसजेद्दातुं हरिः फलं तस्य । प्रसजेत्कृपाऽपि लक्ष्म्याः प्रसजेत्सा स्वदयितं प्रसादयितुम् ॥ ५७५ ॥
यथावा--
करिवरनिनदो मूर्छति हरिवरनिनदोऽपि मूर्छति समन्तात् । मूर्छति च तत्प्रतिस्रुद्गुहागृहाभ्यन्तरेषु शेषगिरेः ॥ ५७६ ॥
यथावा--
कूजन्ति चक्रवाकाः कूजन्ति शुकाः पिकाश्च कूजन्ति । कूजन्ति सारसा अपि कर्णानन्दप्रदाः पृदाकुगिरौ ॥ ५७७ ॥
इदमुदाहरणत्रितयं शुद्धम् । अत्राप्याद्ययोरुदाहरणयोः कारणमाला ध्वन्यते । अन्तिमं तूदाहरणं शुद्धतमम् ॥
पदावृत्तिदीपकं यथा--
व्यालोत्तमाचलेन्दोरालोकाद्दूरतस्तमो द्रवति ।