पृष्ठम्:अलङ्कारमणिहारः.pdf/३३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
330
अलंकारमणिहारे

 अरविन्दान्मकरन्दं माकन्दान्मधुरवृत्ति फलबृन्दम् । कुन्दाद्विन्देद्गन्धं मुक्त्यानन्दं जनो मुकुन्दाच्च ॥ ५६७ ॥

 अत्रापादानकर्मणोः । मधुरा वृत्तिः स्थितिर्यस्य तत् मधुरवृत्ति स्वभावमधुरमित्यर्थः ॥

 यथावा--

 अरुणात्त्रासस्तमसां हरिणाधीशान्मदावलकुलानाम् । हरिणाङ्कात्तापानां शरणागतितस्तवाम्ब पापानाम् ॥ ५६८ ॥

 अत्रापादानकर्त्रोः । कतों चात्र ‘कर्तृकर्मणोः कृति’ इति कृद्योगलक्षणषष्ठीबोध्यः ॥

 घृणिनिवहोऽम्बुजबन्धौ मणिनिवहो भासते महासिन्धौ । गुणनिवहोऽखिलबन्धौ फणिशिखरीन्दौ च नन्दयन्विश्वम् ॥ ५६९ ॥

 अत्र कर्त्रधिकरणयोः ॥

 कारकदीपकमपि दीपक एवान्तर्भावितं दण्डिप्रभृतिभिः । अत्र केचित्-दीपकमपि तुल्ययोगितायामेवान्तर्भवति, धर्मस्य सकृद्वृत्तिमूलकविच्छित्तेरुभयत्राविशेषात् । प्रकृताप्रकृतत्वादिविशेषस्य चावान्तरभेदसाधकत्वेऽप्यलंकारान्तरतायामसाधकत्वात् । अन्यथा तुल्ययोगितायां धर्मिणां केवलप्रकृतत्वस्य के-