पृष्ठम्:अलङ्कारमणिहारः.pdf/३३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
324
अलंकारमणिहारे

यदुत्कृष्टगुणैस्साम्यवचनं साऽपरा मता ॥

 उत्कृष्टगुणैस्साम्यविचक्षया साधारणधर्मकथनमपरा तुल्ययोगिता । धर्मस्य वर्ण्यावर्ण्यगतत्वादुक्तविलक्षणेयम् । ‘यत्प्रायं श्रूयते यच्च तत्तादृगवगम्यते’ इति वाक्यविदभिमतन्यायानुरोधेन प्रसिद्धगुणोत्कृष्टसाम्यस्य वर्णनीये प्रतीतेस्तुल्ययोगिताशब्दान्वर्थताऽप्यस्तीते बोध्यम् ॥

 यथा--

 मणिराजो वनमाला श्रीवत्सो दौग्धसैन्धवी बाला । मृन्मयसुममालाऽपिच तव भूषणतामवाप किल शौरे ॥ ५५२ ॥

 अत्र वर्णनीया मृन्मयसुममाला अप्रकृतैः कौस्तुभादिभिर्भूषणत्वेन समीकृत्योक्ता । मृन्मयसुममालाया एव वर्णनीयत्वेन विवक्षणाल्लक्षणसंगतिः। किलेत्यैतिह्ये । ‘केनचिद्भक्तिमताऽर्पितां मृन्मयीं सुममालां कदाचित्फणिगिरौ भगवान्मूर्ध्न्यधार्षीत् ' इति पौराणिकी कथाऽत्रानुसंधेया । यैवोच्यते ‘दत्तां केनापि सूनावळिमधिमकुटं मृन्मयीमेच दध्रे' इति । अत्र कौस्तुभादीनां भगवदीयत्वेन प्रस्तुतत्वाभिसंधौ प्राथमिकतुल्ययोगितैवैषोति नेदं शुद्धमुदाहरणम् । इदं तु शुद्धम्-

 कल्पद्रुः कामगवी चिन्तारत्नं त्वदाश्रितश्चापि। औदार्याज्जगतोऽच्युत खेदान्व्याधूय कल्पयति मोदान् ॥ ५५३ ॥