पृष्ठम्:अलङ्कारमणिहारः.pdf/३२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
319
तुल्ययोगितासरः (१६)

 यथा वा--

 परिपुष्टधेनुकानां बालाना सवयसां च तालानाम् । कृष्ण फलाभ्यवहारं कल्पयसि स्माविमृश्य बतभेदम् ॥ ५४६ ॥

 हे कृष्ण ! इयं च संबुद्धिस्तदवतारासाधारणचरितमत्र श्लोके विवक्षितमिति ज्ञापनाय । परिपुष्टाः धेनवो गावो यैस्ते परिपुष्टधेनुकाः “शेषाद्विभाषा’ इति कप् । पक्षे-परिपुष्टः धेनुकः तन्नामा गर्दभरूपोऽसुरो येषु ते तेषां सवयसां वयस्यानां 'स्निग्धो वयस्यस्सवयाः' इत्यमरः । पक्षे-सपक्षिणामित्यर्थः । 'वयः पक्षिणि बाल्यादौ’ इति विश्वः । आदौ समानं वयो येषामिति विग्रहे ‘ज्योतिर्जनपद’ इत्यादिना समानशब्दश्य सभावः । द्वितीये वयोभिस्सह वर्तत इति सहपूर्वपदबहुव्रीहौ ‘वोपसर्जनस्य’ इति सहशब्दस्य सभावः । बालानां गोपालबालकानां, तालानां तृणराजतरूणां च भेदं तारतम्यं अविमृश्य फलानां फलैर्वा अभ्यवहारं अहारम् , पक्षे -फलानां अभ्यवहारं अधःपातनं कल्पयसि स्म । बतेत्याश्चर्ये । अत्र श्रीभागवतीया धेनुकासुरवधकथाऽसुसंधेया । बालतालशब्दयोः बतभेदं बकारतकाराभ्यां वैलक्षण्यं अविमृश्य अनादृत्येत्यर्थोऽपि चमत्कारातिशयं पुष्णाति । अत्र तालानामहितत्वं चाहितधेनुकासुराश्रयतयेति ध्येयम् ॥

 यथा वा--

 सद्द्वेषरुचिरमार्गप्रवणोऽरिष्टान्वितोऽतिरिक्तात्मा । अहितो हितश्च भवता क्रियते फणिशैलशेखर विचित्रम् ॥ ५४७ ॥