पृष्ठम्:अलङ्कारमणिहारः.pdf/३२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
314
अलंकारमणिहारे

याम् । पक्षे-चञ्चरीकपुण्डरीकपदे आदौ चतुर्वर्णात्मकयोस्स्वयोः प्रथमभागे परस्परं विरुद्धौ वर्णौ अक्षरे ययोस्ते तथाभूते भचतः। आदिभागस्थयोः चञ्च पुण्ड इत्यनयोरन्योन्यविरुद्धाकारत्वादिति भावः । अथ वर्णद्वयानन्तरं ईक्षणे न इति छेदः । नेत्येतदुत्तरान्वयि । ईक्षणे दर्शने सति सम्यग्विमर्शे सतीत्यर्थः । रमे असवर्णे इति छेदः । अस्मिन्पक्षे ते इत्येतत्प्रथमाद्विवचनम् । ते चञ्चरीकपुण्डरीके प्रायः भूम्ना न तु सर्वात्मना, अन्ते विसर्गबिन्दुभ्यामसावर्ण्यदर्शनादिति भावः । असवर्णे न भवतः, किंतु सवर्णे एव । यद्वा--ईक्षणेनेतेि तृतीयान्तमभिन्नपदमेवास्तु । रमे सवर्णे इत्येवास्तु, तथाच दर्शनेन विचारेण प्रायः सवर्णे एव तुल्यवर्णानुपूर्वीके एव भवत इत्यर्थः । रीकेति वर्णानुपूर्व्यास्तुल्यत्वादुभयत्रेति भावः । अत्रापि गुण एव, भवनक्रियायास्साक्षाद्धर्मिभ्यामनन्वयात् अप्रकृतयोश्चञ्चरीकपुण्डरीकयोरुक्तेन गुणेनान्वयः । इयं च वक्ष्यमाणतद्गुणालंकारसंकीर्णा शब्दपरार्थवर्णनरूपचमत्कारविशेषोपस्कृतेति विशेषः ॥

 यथावा--

 भुवनं दधदप्युदरे भुवनान्तर्विशदपीह नित्यजडम् । भगवंस्तवोपमायामब्भ्रं चेन्दीवरं च बाह्यमभूत् ॥ ५३६॥

 अत्रापि पूर्वोदाहरण इव गुण एव । उदराधिकरणकभुवनधारणभुवनान्तःप्रवेशाभ्यां यथाक्रममब्भ्रेन्दीवरयोर्भगवत्साम्यसंभावनेऽपि नित्यजडत्वातत्साम्ये तयोर्बहिष्कृतिरिति भावः । इयं भुवनजडशब्दश्लेषभित्तिकाभेदाध्यवसायनिर्व्यूढा ॥