पृष्ठम्:अलङ्कारमणिहारः.pdf/३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
26
अलंकारमणिहारे

 आभाति मधुरमधुरं स्वर्गादिफलं न जातु तन्मधुरम् । फणधरधराधरधुरंधरं भजत तज्जनाश्चिरं मधुरम् ॥ ४१ ॥

 अत्र 'प्रकारे गुणवचनस्य' इति सादृश्ये द्विर्भावविधानाद्यत्स्वभावतोऽमधुरमेवापाततो मधुरवद्भाति तद्वचनोऽयं मधुरशब्दो मधुरसदृशे वर्तत इत्यार्थी धर्मलुप्ता। न चैषा वाक्ये समासे वा, मधुरमधुरमित्येकपदत्वात् ॥

 रसगङ्गाधरकारस्तु--पटुपटुरित्यादौ वाचकस्याप्यनुपादानाद्वाचकधर्मलुप्तायामेतदाधिक्यमुद्भावयितुमुचितं, न तु धर्मलुप्तायां, धर्ममात्रलुप्ताया एव धर्मलुप्ताशब्देन तैर्विवक्षणात् । अन्यथा एकलुप्तात्वेन द्विलुप्तानां त्रिलुप्तायाश्च ग्रहणात्पृथगुपादानमसंबद्धमेव स्यात् । न चात्र वाचकस्य द्विर्भावस्यैव सत्त्वान्नास्ति लोपः अपि तु धर्ममात्रस्यैवेति शक्यं वक्तुं, द्विर्भावस्य भाष्यकैयटादौ सादृश्यद्योतकताया एवाङ्गीकारेण तद्वाचकताया असम्भवादित्यवादीत् ॥

 लुप्तोपमाना द्विविधा वाक्यगा च समासगा ॥

 लुप्तोपमाना वाक्यगा यथा--

 विचिते निखिलेऽपि जगत्युचितं श्रीवेङ्कटाद्रिणा सदृशम् । नूनं नोपलभेत स्थानं जातोऽथ जायमानो वा ॥ ४२ ॥

 अत्र सदृशनिषेधादुपमानलुप्ता वाक्ये । अत्र ‘वेङ्कटाद्रिसमं