पृष्ठम्:अलङ्कारमणिहारः.pdf/३१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
313
तुल्ययोगितासरः (१६)

यदुवीर निर्मलानि त्रिदशमृगदृशां दिशां च वदननि ॥ ५३३ ॥

 अत्र मलीमसत्वं गुणः पूर्वार्धे । उत्तरार्धे निर्मलानीति मालिन्याभावरूपो धर्मः केषांचिन्मते । वस्तुतस्तु सोपि गुण एव ॥

 यथा वा--

 भूषयति वृषगिरिं त्वयि सुरासुराः किन्नरा नरा वाऽपि। नाभक्तिजुषो भगवन्नाप्राप्तमनोरथाश्च जातु स्युः ॥ ५३४ ॥

 अत्रापि पूर्वोदाहरणवद्गुण एव ॥

 यथा वा--

 आदौ विरुद्धवर्णे परस्परमथेक्षणेन ते प्रायः। भवतो रमे सवर्णे स चञ्चरीकश्च पुण्डरीकं च ॥

 हे रमे ! सः नीलवर्णत्वेन प्रसिद्धः चञ्चरीकः भ्रमरः पुण्डरीकं सिताम्भोजं च । आदौ त्वत्कटाक्षसान्निध्यात्पूर्वं परस्परं

विरुद्धे वर्णे ययोस्ते तथोक्ते असितसितवर्णत्वादन्योन्यविरुद्धवर्णे इत्यर्थः । 'नपुंसकमनपुंसकेन’ इत्यादिना नपुंसकलिङ्गशेषः । अथ अनन्तरं कदाचिदिति यावत् । ते तव ईक्षणेन कटाक्षवीक्षणेन सवर्णे समानो वर्णो ययोस्ते तथोक्ते भवतः तुल्यवर्णे संपद्येते ।कटाक्षस्य काळिम्ना धवळिम्ना वा असितवर्णे सितवर्णे वा भवत इति भावः । ‘कटाक्षाः काळिन्दीकुवलयकचग्राहिरुचयः, वधुकिरणधारासहचरो कटाक्षाणां रेखा’ इत्यादौ कटाक्षाणां द्वैवर्ण्यस्य कविसमयसिद्धत्वात् । प्राय इति संभावना-

ALANKARA
40