पृष्ठम्:अलङ्कारमणिहारः.pdf/३०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
299
अतिशयोक्तिसरः (१५)

जयाय । कं कटकं प्रविशाम स्वयमिति रिपवोऽ पि संभ्रमन्तितराम् ॥ ५१६ ॥

 हे वेङ्कटगिरिनाथ! त्वयि कङ्कटकं कवचं ‘उरश्छदः कङ्कटकः' इत्यमरः । विशति सति रिपवोपि कङ्कटकं पक्षे कं कटकं गिरिनितम्बं प्रविशेमेति संभ्रमन्तितराम् । ‘कटकोस्त्री नितम्बोऽद्रेः' इत्यमरः । अत्रापि कवचप्रवेशगिरिनितम्बप्रवेशयोर्गौगपद्यं दर्शितम् ॥

हेतुप्रसक्तिमात्रेण कार्यं चेद्विनिबध्यते ::चपलातिशयोक्तस्सा निपुणैर्विनिगद्यते ॥

 हेत्वभावेऽपि हेतुप्रसक्तिमात्रेण कार्यवर्णनं चपलातिशयोक्तिरित्यर्थः । प्रसक्तिर्ज्ञानम् ।

 यथा--

 काश्चन सपद्ममाला लीला विहरन्ति पद्मवनलोलाः । आवासेषु तदैषां श्रीवाससिषेविषा यदा येषाम् ॥ ५१७ ॥

 अत्र श्रीनिवाससेवाभावेऽपि तदिच्छामात्रेण भक्तजनावासेषु श्रीविहाररूपकार्यं वर्णितम् । अत्र श्रीर्लीलात्वेनाध्यवस्यते॥

 यथावा--

 त्वयि जागरं विविक्षति जातु रणेनोत्सुके मुराराते । जागरमाविशति सदा रणरणकेन स्वयं द्विषन्निवहः ॥ ५१८ ॥