पृष्ठम्:अलङ्कारमणिहारः.pdf/३०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
298
अलंकारमणिहारे

त्याहितेन बाष्पं मुञ्चन्तीत्यर्थः । तस्मिन् भगवत्पाणौ गां बाणं जहति सति ते द्विषन्तोऽपि गां बाणं, पक्षे भुवं च जहति त्यजन्तीत्यर्थः । संदधति जहतीत्यत्र संपूर्वकाद्दधातेर्जहातेश्च लट्प्रथमपुरुषबहुवचनम् । ‘स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रघृणिभूजले । लक्ष्यदृष्टया स्त्रियां पुंसि गौः' इत्यमरः । अत्र यदा धनुषस्सज्जीकरणं तदैव द्विषतां बाष्पमोचनं, यदा बाणत्यागस्तदा क्षोणीत्याग इति हेतुकार्ययोस्सहत्वं वर्णितम् ।

 यथा वा--

 संभ्रमतश्चलति पुरस्संभ्रमतश्चलति भवति रिपुनिवहः । चक्रं त्यजति च चक्रं त्यजति मृगेन्द्राचलेन्द्रमौळिमणे ॥ ५१५ ॥

 भवति त्वयि संभ्रमतः रिपुनिरासे त्वरया अत्यादरेण वा पुरः अग्रतः चलति सति रिपुनिवहोऽपि संभ्रमतः उक्तोऽर्थः, पक्षे आवेगाद्भयाद्वा ‘संभ्रमस्त्वरा' इत्यभर, ‘संभ्रमोऽत्यादरे भीतावावेगे' इति रत्नमाला च । पुरः अग्रतः स्वनगराच्च चलति । त्वयि चक्रं सुदर्शनं त्यजति प्रयुञ्जाने सति रिपुनिवहोपि चक्रं सुदर्शनं राष्ट्रं च त्यजति मुञ्चति लोकान्तरं गच्छतीति भावः । 'चक्रं चये जलावर्ते रथाङ्गे राष्ट्रसैन्ययोः' इति रत्नमाला । अत्र यदा भगवतो रिपुनिग्रहार्थं पुरश्चलनं तदैव रिपूणां नगरत्यजनं, यदा सुदर्शनप्रयोगस्तदा राष्ट्रत्याग इति कार्यकारणयोर्यौगपद्यमभिहितम् ॥

 यथावा--

 कङ्कटकं विशति त्वयि वेङ्कटगिरिनाथ वैरिवि-