पृष्ठम्:अलङ्कारमणिहारः.pdf/३०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
297
अतिशयोक्तिसरः (१५)

 यथा-

 दर्वीकरगिरिशेखरसर्वेश्वरसेवनेन धन्यतमाः । अपुनर्भवाय केचिन्निपुणाः स्पृहयन्ति नो कदाचिदपि ॥ ५१२ ।।

 अपुनर्भवाय निश्श्रेयसाय । अत्र मोक्षस्पृहासंबन्धेऽपि तदसबन्धवर्णनम् ॥

 यथा वा--

 सारोहश्रममहिगिरिपारोदितमेनमर्चयन्तु नराः । अवरोहश्रमवर्जितमवरोधैस्सममिहार्चयन्त्यमराः ॥ ५१३ ॥

 अत्रावरोहश्रमसंबन्धेऽपि तदसंबन्धवर्णनम् ॥

 हेतुकार्यसहत्वे स्यात्सेयमक्रमपूर्विका ॥

 कार्यकारणयोस्तुल्यकालत्वे सेयमतिशयोक्तिरक्रमशब्दपूर्विका अक्रमातिशयोक्तिस्स्यात् ॥

 यथा--

 संदधति चापमाराद्द्विषतां नयनानि संदधति चापम् । अञ्जनगिरिपतिपाणौ गां जहति च तेऽपि गा जहति ॥ ५१४ ॥

 अञ्जनगिरिपतिपाणौ चापं कार्मुकं संदधति अधिज्यं कुर्वति सति द्विषतां नयनानि चापं धनुस्संदधति । पक्षे च आपमिति छेदः। नयनानि च आपं अपां समूहं संदधति । अ-

 ALANKARA
38