जडिमा अचेतनत्वमित्यर्थः । धुतजडिमा इत्यत्र ‘डाबुभाभ्याम्' इति डाप् । स्त्रीत्वं स्फुटयेम सांप्रतं स्ववाचके शब्दे शास्त्रमात्रसमधिगम्यमास्ते स्त्रीत्वं, इतःपरं भगवच्चरणरेणुव्यतिकरविनिर्धूतप्रस्तरभावाः 'स्तनकेशवती नारी’ इत्युक्तलक्षणं लौकिकस्त्रीत्वं चार्थगतं क्रमेण प्रकाशयेम गौतमशापाद्ग्रावभावभागहल्येवेति भावः । अत्राहिगिरिशिलानामुक्तविधप्रमोदासंबन्धेऽपि तत्संबन्धकल्पनं वर्ण्योत्कर्षार्थम् ॥
यथा वा-
रविनिभकौस्तुभतेजसि विसरति परितस्तवान्तिके नमताम् । द्युसदां किरीटमणयो हरे पराः कीटमणय एवासन् ॥ ५११ ॥
हे हरे! पराः श्रेष्ठाः किरीटमणयः कीटमणयः खद्योता एवासन् रविनिभकौस्तुभतेजसि खद्योतवत्तिरोहितरुचोऽभवन्नित्यर्थः । ‘खद्योते स्यात्कीटमणिर्योतिर्मीली तमोमणिः’ इत्यभिधानचिन्तामणिपरिशिष्टे तिर्यक्काण्डे । पक्षे अपरा इति छेदः अपगतरेफाः किरीटमणयः कीटमणयः इति निष्पन्ना इत्यर्थः । रेफोत्तरमकारोच्चारणं मुखसुखार्थं, रेफरूपव्यञ्जनमात्रापसारणे ककारो त्तरवर्तिन इकारस्य रेफोत्तरश्रुतस्य ईकारस्य च सवर्णदीर्घ तथात्वस्य दर्शनादिति भावः । अत्र किरीटमणीनां कीटमणित्वासंबन्धेऽपि तत्संबन्धकल्पनम् । अर्थान्तरं तु चमत्कारातिशयाय ॥
योगेऽप्ययोगोऽसंबन्धातिशयोक्तिरुदीर्यते॥
संबन्धेऽप्यसंबन्धकल्पनमसंबन्धातिशयोक्तिरित्यर्थः ।