पृष्ठम्:अलङ्कारमणिहारः.pdf/३०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
295
अतिशयोक्तिसरः (१५)

 यथावा--

 अन्या मनसो वृत्तिर्मान्यानां देव तावकीनानाम् । आहंकारिकतां यत् क्वचिदपि नोपाश्नुते कथंचिदपि ॥ ५०८ ॥

 आहंकारिकतां सात्विकाहंकारपरिणामतां, पक्षे अहंकारमर्हतीत्याहंकारिकं तस्य भावं ‘तदर्हति’ इति ठक् । अहंयुत्वमित्यर्थः । अत्राहंकारिकस्यापि भागवतमनसस्तद्भेदो वर्णेितः । आद्या शुद्धा । अन्ये श्लेषसंकीर्णे ॥

असंबन्धेऽपि संबन्धो वर्णोत्कृष्ट्यै यदीर्यते ।
संबन्धातिशयोक्तिं तामलंकारविदो जगुः ॥

 संबन्धश्चाभेदभिन्नत्वे सत्यन्यत्वाद्यनिरूपितो ग्राह्यः । तेन रूपकातिशयोक्त्यादिप्रभेदेषु नातिप्रसङ्गः ।

 यथा--

 रुचिरतरनिजतनूरुचिनिचयप्राचुर्यमेचकितभुवनम् । चलदलकविलसदलिकं कलयाम्यनिलाशनाद्रिपतितिलकम् ॥ ५०९ ॥

 अत्राखिलभुवनस्य श्रीनिवासदिव्यविग्रहरुचिमेचकितत्वासंबन्धेऽपि तत्संबन्धोक्तिः ॥

 यथावा--

 वयमपि कतिपयदिवसैः पयसिजनयनाङ्घ्रिधूळिधुतजडिमाः । स्त्रीत्वं स्फुटयेम स्वकमित्यहिगिरिपतिशिलाः प्रमोदन्ते ॥ ५१० ॥