पृष्ठम्:अलङ्कारमणिहारः.pdf/३००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
294
अलंकारमणिहारे

 प्रस्तुतस्यान्यत्वं अभेदेऽपि भेदः स यत्र लोकोत्तरत्वप्रतिपत्त्यर्थो वर्ण्यते सा भेदकातिशयोक्तिरित्यर्थः । अभेदे भेदवर्णनं चाहार्यं ज्ञेयम् । एवमुत्तरत्रापि । तेन भ्रान्तौ नातिप्रसङ्गः ॥

 यथा--

 अन्यदिदं तव मौग्ध्यं कन्येऽब्धेरन्यदेव वैदग्ध्यम् । येन जगज्जनिहेतुर्नूनं क्रीतः फणीन्द्रगिरिकेतुः ॥ ५०६ ॥

 मौग्ध्यं सौन्दर्यं ‘उदयद्यौवना मुग्धा लज्जाविजितमन्मथा' इत्युक्तलक्षणावस्थाविशेषो वा, वैदग्ध्यं चातुर्यम् ॥

 यथावा--

 अमृतमयी काचिदियं सृष्टिर्यस्त्वद्गुणान्गृणाति जनः । न प्राकृतजनगन्धं सहते जात्वपि यदृच्छयाऽप्येषः ॥ ५०७ ॥

 यः जनः त्वद्भणन् गृणाति स्तौति, इयं अमृतमयी निश्श्रेयसमयी काचित्सृष्टिः । इयमिति विधेयसृष्टिशब्दानुरोधिनी स्त्रीलिङ्गता । अत एव एष त्वद्गुणस्तोता जनः जात्वपि यदृच्छयाऽपि प्राकृताः प्रकृतिपरिणामभूताः पक्षे पामराः ये जनाः 'विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः' इत्यमरः । तेषां गन्धं संबन्धं न सहते । इयं प्राकृती चेत्सृष्टिः कथं प्राकृतजनगन्धं न सहेत अतो मन्ये नैषा प्राकृती सृष्टिः किंत्वन्यैवामृतमयीति भावः । अत्र प्रसिद्धप्राकृतसृष्ट्यन्तर्गतस्यापि भगवदुपश्लोकितृजनस्य तद्भेदो वर्णितः ।