ननु ‘अञ्जनगिरिशिखरोल्लसत्’ इत्याद्युक्तोदाहरणेषु इदमिति विषयस्योपादानात्कथमतिशयोक्तिरिति चेच्छ्रूयताम्-इदं त्वस्य विषयिविशेषणत्वेन विवक्षायामतिशयोक्तिः । विषयाविशेषणत्वविवक्षायां तु रूपकमेव । एवं गौरयमित्यादावपि । अत एवातिशयोक्तावभेदोऽनुवाद्य एव न विधेय इति प्राचामुक्तिस्संगच्छते । अत एव च प्रकाशकृता ‘नयनानन्ददायीन्दोर्बिम्बमेतत्प्रसीदति’ इत्यतिशयोक्तिरूपकसंकरस्योदाहरणं च योयुज्यत इति दिक् ।
सापह्नवातिशयोक्तिः-
उक्ता सापह्नवा सैव यद्यपह्नुतिगर्भिता ॥
सैव रूपकातिशयोक्तिरेव अपह्नुतिगर्भिता चेत्सापह्नवातिशयोक्तिरुक्ता भवति । तथाच सापह्नवत्वनिरपह्नवत्वभेदेनातिशयोक्तिर्द्विविधेति ध्येयम् ॥
यथा-
अधिफणिधरणिधराग्रं निधिरक्षय्योऽखिलोपजीव्योस्ति। धनदावसथे निधिरिति मनुते सर्वोऽपि कियदिदं मौग्ध्यम् ॥ ५०३ ॥
अत्र आधिफणिधरणिधराग्रं निधिरित्यतिशयोक्तिः धनदावसथस्थो न निधिरित्यपह्नुतिगर्भा । निहवोऽत्र मौग्ध्योपन्यासादर्थसिद्धः ॥
यथावा-
मृगपतिनगशिखरलगज्जगदान्ध्यं हरति खलु