चारिते’ इत्यमरः । आहिताग्नयादेराकृतिगणत्वान्निष्ठायाः परनिपातः । नामापि वाचेत्यन्वयः । अत्र केऽमी पिशचका इत्यनिर्ज्ञातत्वप्रकाशनान्निर्ज्ञातपिशाचकेभ्यो वैलक्षण्यं, दृश्या इत्यनेनादृश्येभ्यस्तेभ्यो न्यूनता च दर्शिते ॥
अनुभयताद्रूप्यरूपकातिशयोक्तिर्यथा--
शितिकण्ठकृतनिषेवणमविकुण्ठस्पर्शनप्रथितविभवम् । कमपि घनं फणिशिखरिणि कलयामि घनागमान्तसंलक्ष्यम् ॥ ५०१ ॥
शितिकण्ठेन महादेवेन मयूरैश्च कृतनिषेवणं अविकुण्ठं
निरर्गळं स्पर्शनं वितरणं तेन, पक्षे अप्रतिहतेन मारुतेन 'स्पर्शनो मारुते पुंसि दाने स्पर्शे नपुंसकम्' इति मेदिनी । प्रथितविभवं, घनाः ये आगमान्ताः उपनिषदः तैः संलक्ष्यं ज्ञेयं तेषु
प्रतिपाद्यं वा । ‘तं त्वौपनिषदम्' इति श्रुतेः । पक्षे घनागमस्य
प्रावृषः अन्ते मध्ये संलक्ष्यं दृश्यम् । कमपि घनं कलयामि ॥
यथावा--
सुमनःकदम्बतान्तेश्शमनं तपनोद्भवोष्मभयदमनम् । कमपि घनाघनमेनं कलयन्नुज्जीवनं लभे नूनम् ॥ ५०२ ॥
सुमनसां मालतीनां कदम्बानां नीपानां च पक्षे देवनिवहानां ‘सुमनाः पुष्पमालत्योः,' ‘कदम्बं निकुरुम्बे स्यान्नीपसिद्धार्थयोः पुमान्’ इति च मेदिनी । तान्ते ग्लानेः शमनम् । तपनात् भानोः उद्भवतीत्युद्भवः पचाद्यच् । य ऊष्मा तस्मात्