पृष्ठम्:अलङ्कारमणिहारः.pdf/२९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
289
अतिशयोक्तिसरः (१५)

करोति, न तु नीलम् । अत्र यमेवैष वृणुते तेन लभ्यस्त यैष आत्मा विवृणुते तनूं स्वाम्' इति श्रुत्यर्थोऽनुसंधेयः । तथाहि 'एष परमत्मा यं साधकं प्रार्थयते तेन लभ्यः । प्रार्थनीयेन पुंसा लभ्य इत्यर्थः । तत्प्रार्थनीयत्वं च तत्प्रियतमस्यैव पुंसः । तत्प्रियतमत्वं च तत्प्रीतिमत एव । ततश्च भगवद्विषयिणी उपासकस्य प्रीतिः भगवत उपासके प्रीतिमुत्पाद्य तत्प्राप्तिहेतुर्भवति । तस्योपासकस्य एष आत्मा परमात्मा स्वां तनुं स्वरूपं विवृणुते प्रकाशयति स्वानुभवं प्रयच्छति' इत्यभाषि । वृणुत इति पाठेऽपि स एवार्थः । अत्र अन्यदित्यनेन निर्ज्ञातनीलरत्नाद्वैलक्ष ण्यं नीरन्ध्रेत्यादिना नीरन्ध्रगुणप्रोतत्वाहिशिखरिखनिजत्वामृतविशदीकरणैस्सरन्ध्रगुणप्रोतात्सिंहलाकरजात् क्षीरनीलतानिष्पादकात्तस्मादाधिक्यं च दर्शितम् ।

 एवम्--

 कानपि भजे विलासान्कण्ठीरवभूधरेन्द्रकृतवासान् । लक्ष्मीकटाक्षदासान् ललितशरच्चन्द्रचन्द्रिकाहासान् ॥ ४९९ ॥

 इत्यादावप्यधिकताद्रूप्यरूपकातिशयोक्तिर्द्रष्टव्या ॥

 न्यूनताद्रूप्यरूपकातिशयोक्तिर्यथा--

 पन्नगसन्नगनेतुस्सन्नयविन्नैरुदीरितं नाम । वाचाऽपि नाभिदधतो नीचाः केऽमी पिशाचका दृश्याः ॥ ५०० ॥

 सन्नयो वेदान्तशास्त्रं विन्नः विचारितो यैः तथोक्तैः ‘रदाभ्याम्' इति निष्ठातस्य पूर्वस्य दस्य च नत्वं ‘विन्नवित्तौ वि-

 ALANKARA
37