पृष्ठम्:अलङ्कारमणिहारः.pdf/२९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
286
अलंकारमणिहारे

नलक्षणामूलकहेतुहेतुमदभेददर्शनेन तल्लक्षणस्य तथाविधहेतुहेतुमदभेदतत्परतावगमात्तादृशहेत्वलंकारस्यातिशयोक्तावेवान्तर्भावः न तु सारोपलक्षणामूलकहेतुहेतुमदभेदस्यापीति ॥ उल्लेखादीनामप्यत्रैवातिशयोक्तौ क्तौस्तुभकृताऽन्तर्भावनं तु नातीव रमणीयमिति स्वयमेव विदां कुर्वन्तु सहृदया इति विरम्यते विस्तरभयात् ॥

 मालारूपाऽपीयं दृश्यते यथा--

 सौराज्यं जगतीनां सौमङ्गल्यं सुपर्वसुदतीनाम् । सौभाग्यमहिगिरिपतेस्सौलभ्यं हन्त नयनयोर्भजते ॥ ४९४ ॥

 अत्र सौराज्यादिरूपकार्येषु तत्कारणभगवदभेदाध्यवसायः ॥

 अत्रातिशयोक्तौ रूपकविशेषणं रूपके प्रदर्शिताः प्रकारा अत्रापि संभवन्तीति सादृश्येन प्रदर्शनार्थम् । मुख्यरूपकाभेदस्यातिशयोक्तावसंभवाद्रूपकपदं ‘मासमग्निहोत्रं जुहोति' इत्यत्राग्निहोत्रपदवत्तद्धर्मातिदेशेन तत्सदृशपरम् । तेनात्राप्यभेदातिशयोक्तिस्ताद्रूप्यातिशयोक्तिरिति विधाद्वयं तत्राप्याधिक्यन्यूनतानुभयविभागश्चेत्येतत्सर्वं विभावनीयम् ॥

 तत्राधिकाभेदरूपकातिशयोक्तिर्यथा--

 अञ्जनगिरिशिखरोल्लसदञ्जनमद्भुतमिदं नृणां जातु। सञ्जितमिह लोचनयोर्व्यञ्जयति सदा स्वमेव निधिम् ॥ ४९५ ॥