सामग्री पर जाएँ

पृष्ठम्:अलङ्कारमणिहारः.pdf/२९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
284
अलंकारमणिहारे

 अत्र लावण्याश्रये भगवत्यां लक्ष्म्यां लावण्यारोपः । चन्द्रोऽयमित्यादौ सादृश्यस्याध्यवसाननिमित्तत्वाद्गौणत्वम् । आश्रयत्वादिसंबन्धस्य निमित्तत्वे तु शुद्धत्वमिति विवेकः । ‘भेदाविमौ च सादृश्यात्संबन्धान्तरतस्तथा । गौणौ शुद्धौ च विज्ञेयौ’ इति काव्यप्रकाशोक्तेः । इमौ भेदौ सारोपसाध्यवसानरूपभेदावित्यर्थः । तस्मात्सादृश्यातिरिक्तसंबन्धेन यत्रान्यस्मिन्नन्यतादात्म्यारोपः सा शुद्धसाध्यवसानेति ध्येयम् ॥

 कार्ये कारणाभेदाध्यवसानं यथा--

 वचनरसधुतमरन्दं वपुरसितिम्नाऽवधीरितमिळिन्दम् । वन्दारुदेववृन्दं विनतानन्दं कमप्यहमविन्दम् ॥ ४९३ ॥

 अत्र विनतानन्दरूपकार्ये तत्कारणभगवदभेदाध्यवसायः । ‘हेतुहेतुमतोरैक्यं हेतुं केचित्प्रचक्षते ’ इत्युक्तलक्षणहेत्वलंकारविशेषस्य तु शुद्धसारोपलक्षणामूलकत्वेनोपात्तविषयकं ‘लक्ष्मीविलासा विदुषां कटाक्षा वेङ्कटप्रभोः' इत्यादिकं विषय इति नानेनैव कार्यकारणाभेदरूपशुद्धसाध्यवसानलक्षणामूलकेन गतार्थता ॥

सारोपा तत्र यत्रोक्तौ विषयी विषयस्तथा ।
सारोपा द्विविधा सेयं गौणी शुद्धेति भेदतः ॥
सादृश्यात्मकसंबन्धरूपा गौणीत्युदीर्यते ।
शुद्धा तदन्यसंबन्धरूपा सा तु निगद्यते ॥
मुखेन्दुर्नयनानन्दस्तन्व्या विजयते तराम् ।
निगीर्य विषयं यत्र विषय्येव निबध्यते ॥