पृष्ठम्:अलङ्कारमणिहारः.pdf/२८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
280
अलंकारमणिहारे

 यथावा--

 अतिवेले भवजलधावरिविजयायावितीर्यमाणपथे । रघुकुलवीर तटस्थं वीक्षन्ते वानरा इव नरास्त्वाम् ॥ ४८८ ॥

 अतिवेले भवजलधौ पूर्वं जलधाविवेति भावः । अरीणां कामादीनां द्विषां दशाननादीनामिवेति भावः । विजयाय अवितीर्यमाणः अदीयमानः पन्थाः मार्गः उपायश्च येन तथोक्ते सति, तटस्थं तीरस्थं उदासीनं च त्वां वानरा इव नराः पश्यन्ति कुतोऽयममुं भवजलधिमपि शरैश्शोषयितुं सेतुना बन्द्धुं वा नोद्युङ्क्त इति वीक्षन्त इति भावः । अत एव रघुकुलवीरेति संबोधनम् । अत्र रूपकोज्जीवितया उपमया जलधिमिव भवजलधिमपि शुशोष इषव इवेति वा बिबन्धयिषव इवेति वा उत्प्रेक्षा ध्वन्यते ॥

 यथावा--

 उद्वेलतरं सुतरामुत्सिक्ते तव यशःपयोराशौ । उरगधराधरभास्वन्नुडुपं क्षणमपि न मुञ्चति ज्योत्स्ना ॥ ४८९ ॥

 ज्योत्स्ना कौमुदी उडुपं इन्दुमेव प्लवं न मुञ्चति स्त्रियो हि नितरां भीरव इति भावः । अत्रापि रूपकेण निमज्जनभयेनेवेत्युत्प्रेक्षाया ध्वनिः ॥

 ननु अध्यवसायमूलताया अतिशयोक्त्युत्प्रेक्षयोस्तुल्यत्वात्कथमनयोर्भेद इति चेत् शृणु-अध्यवसायो नामाभिन्नत्वेन प्रतिभासनम् । स च द्विविधः सिद्धस्साध्यश्चेति । यत्र