त्तात्' इत्यादिना ङीप्सान्नियोगशिष्टस्तकारस्य नकारादेशः, णत्वं च ‘हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या' इत्यमरः । श्रियं लक्ष्मीं वीक्ष्य वनहरिण्यः विपिनकुरङ्ग्यः । कृष्णं कृष्णसारमित्यर्थः । ‘विनाऽपि प्रत्ययं पूर्वोत्तरपदयोर्लोपः’ इति भीमसेनादिशब्दवदुत्तरपदभूतसारशब्दस्य लोपः। अत एव ‘कृष्णाजिनेन संवृण्वन्’ इत्यादयः प्रयोगा निर्विचिकित्साः । निजवल्लभं ईक्षन्ते । श्रीरिव वयमपि हरिणीशब्दवाच्याः भगवानिवास्मद्वल्लभोपि कृष्णशब्दाभिलपनीय इति पश्यन्तीति भावः । अत्र हरिणीकर्तुककृष्णसारकर्मकवीक्षणेन वस्तुना श्रीकृष्णवक्षस्समालिङ्गिता हरिणीशब्दाभिलाप्या श्रीरिव स्वयमपि तथा बुभूषव इवेत्युत्प्रेक्षा ध्वन्यते ॥
यथावा--
प्रणिनंसया सुमनसा मौळिषु नमितेषु सुमनसस्तत्स्थाः । पुर एव ततोप्यपतन्नुरगधराधरशिरोमणेश्चरणे ॥ ४८६ ॥
सुमनसां देवानाम् । तत्स्थाः मौळिस्थाः सुमनसः कुसुमानि । अत्र सुमनःपतनेन वस्तुना नामसाम्यप्रयुक्तस्पर्धया त्रिदशमौळिभ्योप्यग्रे स्वयमेव प्रणिनंसव इवेत्युत्प्रेक्षा ध्वन्यते।
निर्वेलभवदवानलखर्वेतरतापविलुलिता मनुजाः। त्वद्वदनसुधाजलनिधिमुद्वीक्षन्ते मुहुर्मुराराते ॥ ४८७ ॥
अत्र रूपकेण निमङ्क्तुमिवेत्युत्प्रेक्षा ध्वन्यते ॥