पृष्ठम्:अलङ्कारमणिहारः.pdf/२८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
275
उत्प्रेक्षासरः (१४)

वस्तुस्थितिः । ‘कर्बुरं सलिले हेम्नि कर्बुर: पापरक्षसोः' इति मेदिनी । अत्र मेरौ विबुधैकाधारत्वनिह्नवेन श्रीवृषगिरौ तदुत्प्रेक्षा पर्यस्तापह्नुतिगर्भा उत्तरार्धोक्ततर्करूपयुक्तिपूर्वा ।

 यथावा--

 इन्दुर्न द्विजराजो द्विजराजो वाह एव तव नूनम् । स हिनस्ति विप्रयोगिन एष तु कमलाक्ष विप्रमोदकरः ॥ ४७७ ॥

 हे कमलाक्ष! इन्दुः द्विजराजः ‘तस्मात्सोमराजानो ब्राह्मणाः' इति श्रुत्युक्तरीत्या ब्राह्मणानां राजा न, किंतु तव वाह एव गरुत्मानेव द्विजराजः उक्तोऽर्थः । नूनम् । अत्र हेतुः स इत्यादिः । सः इन्दुः विप्राश्च ते योगिनश्च तानेव हिनस्ति अतः कथं स द्विजराजो भवेदिति भावः । विरहिणो हिनस्तीति वास्तवार्थः । एषः तव वाहस्तु विप्राणां मोदकरः, पक्षे वीनां पक्षिणां प्रमोदकरः तस्य तदीश्वरत्वात् । अतोऽयमेव द्विजराज इति भावः । अत्रेन्दौ द्विजराजत्वापह्नवेन गरुत्मति तदुत्प्रेक्षा सहेतुकपर्यस्तापह्नुतिगर्भा ॥

 यथावा--

 न सहस्रांशुर्द्युमणिः कौस्तुभमणिमेव तर्कये द्युमणिम् । स परिष्कुरुतेऽनन्तं दिवैव नक्तंदिवमयं तु ॥ ४७८॥

 सः सहस्रांशुः अनन्तं अन्तरिक्षं दिवैव परिष्कुरुते । अयं कौस्तुभमणिस्तु अनन्तं अन्तरिक्षं भगवन्तमिति तु वास्तवार्थः ।