पृष्ठम्:अलङ्कारमणिहारः.pdf/२७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
266
अलंकारमणिहारे


कलिते । अच्युत रत्नमयत्वं त्वयि नियतमवैमि पद्मरागपदे ॥ ४५८ ॥

 शुभं पुष्णातीति शुभपुट् तस्मिंस्तथोक्ते अरागेषु विरतेषु रुचिजुषि प्रीतिभाजि । पक्षे शुभाः पुष्यरागाः रत्नविशेषाः तै रुचिजुषि परभागभाजीति यावत् । सुमहानीले अतिमात्रश्यामले । पक्षे मणिविशेषे । विदूरः दवीयान् भवस्संसारो येषां तैः अस्पृष्टसंसारगन्धैर्नित्यमुक्तादिभिः कलिते सेविते । पक्षे विदूरभवैः वैदूर्यैः कलिते पद्मस्य राग इव रागो ययोस्ते पदे चरणे यस्य तस्मिन् । पक्षे पद्मरागाणां मणीनां पदे आश्रये अत एव हे अच्युत ! त्वयि उक्तरूपे त्वयि रत्नमयत्वं अवैमि संभावये । अत्रोत्प्रेक्ष्यमाणस्य रत्नमयस्य धर्मेषु शुभपुष्यरागरुचिभाक्त्वादिकेषु विशेषणीभूतैस्तत्तद्रत्नैः विषयस्य भगवतो धर्मेषु शुभपोषकत्वादिषु विशेषणीभूतानां शुभपोषणादीनां श्लेषेण तादात्म्यसंपादनम् ॥

 पूर्वोदाहरणयोराद्ये ‘सत्पद्म’ इति पद्ये अभङ्गश्लेषेण द्वितीये ‘इह भार्गवी' इति पद्ये सभङ्गाभङ्गश्लेषाभ्यां साधारणीकरणं वक्ष्यमाणरत्नवळ्या रूपकेण च संकीर्णता च । अस्मिन् शुभपुष्यराग’ इति पद्ये तूभयविधश्लेषेण साधारणीकृतिमात्रमिति विशेषः ॥

 यथावा--

 स्वायत्तहेमकूटः प्रायस्संपूज्यते महेन्द्रेण । प्रस्रवणसेवितोसावेते दासाः किमस्य शेषगिरेः ॥

 अत्र हेमकूटमहेन्द्रप्रस्रवणशब्दा गिरिविशेषवाचिनः । अ-