पृष्ठम्:अलङ्कारमणिहारः.pdf/२७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
264
अलंकारमणिहारे

मणिरिव विचरन्' इत्यादौ नैल्यादिः। न चात्र विचरत्वादिरूप उपात्त एव साधारणो धर्मः साधारण्यार्थमेव हि विषयिण्यारोप इति वाच्यम् । तस्यारोपेण कृतेऽपि साधारण्ये असुन्दरत्वेनोत्प्रेक्षोन्मेषकत्ववैधुर्यात् । साधारणीकरणं तु प्रतिबन्धनिरासार्थमित्यवोचामैव ॥

 यथा--

 सत्पद्मशङ्खकच्छपमकरं घननील तव मुकुन्दपदम् । वरकुन्दनखं मन्ये सुमहापद्मं ततो निधिमयं त्वाम् ॥ ४५६ ॥

 हे घननील! मेघश्यामल! पक्षे घनः नीलो निधिविशेषो यस्य स तथोक्तः तस्य संबुद्धिः । हे मुकुन्द! मुक्तिदायिन्! पृषोदरादित्वात्साधुः । पक्षे हे मुकुन्दनिधे! तव पदं चरणं सन्तः पद्मशङ्खकच्छपमकराः यस्मिंस्तत् पद्माद्याकाररेखासंपन्नमित्यर्थः । पक्षे पद्मादिनामनिधिविशेषवदित्यर्थः । वराणि कुन्दानि कुन्दकुसुमानीव नखानि, पक्षे वरकुन्दौ निधिविशेषौ नखेषु यस्य तत्तथोक्तम् । ततः तस्मात् महती पद्म श्रीर्यस्य तं, पक्षे महापद्मनिधिं च । त्वां निधिमयं 'महापद्मश्च पद्मश्च' इत्युक्तनिधिमयं मन्ये । अत्रोत्प्रेक्ष्यमाणस्य निधिमयस्य धर्मेषु पद्मादिनिध्याश्रितचरणत्वादिकेषु विशेषणीभूतैस्तत्तन्निधिभिर्विषयस्य भगवतो धर्मेषु कमलशङ्खादिरेखाश्रितपदत्वादिषु विशेषणानां पद्मादीनां श्लेषेण तादात्म्यसंपादनद्वारा तथाविधधर्माणां साधारण्यसंपत्तिः ॥

 यथा वा--

 इह भार्गवीसमृद्धिस्सरस्वती भात्युपत्यका दु-