पृष्ठम्:अलङ्कारमणिहारः.pdf/२६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
263
उत्प्रेक्षासरः(१४)

क्वच्छिलेषः क्वचिदपह्नुतिः क्वचिद्बिम्बप्रतिबिम्बभावः क्वचित्तत्करम्भितवस्तुप्रतिवस्तुभावः क्वचिदुपचारः क्वचिदभेदाध्यवसायरूपोऽतिशयः । तत्र स्वत एव साधारणो धर्मः प्रागुदाहृते 'नीलगुणेनाक्रान्ते' इति पद्ये विषयविषयिणोः कनकवसनपीतगुणयोरौज्ज्वल्यम् । साधारणीकृतस्तु प्रागुदाहृत एव ‘भ्रूयुगळधनुर्लस्तकसंहितनासाकरीरसंलग्नम्’ इति पद्ये प्रथमार्धगतो धर्मः रूपकेण विषयविषयिसाधारणीकृतः ॥

 श्लेषेण साधारणीकृतो यथा--

 सुरभिस्वैरस्पर्शनलीलाप्यायितसमस्तलोकस्त्वम् । यन्माधवोसि तत्त्वां वसन्तमहिशैलनाथ जानीमः ॥ ४५५ ॥

 सुरभेः कामधेनोः स्वैरस्पर्शनं स्वच्छन्दवितरणं तस्य लीलया कामगवीवादान्यकतुल्यवादान्यकेनेत्यर्थः । अन्यत्र सुरभिः घ्राणतर्पणस्सुगन्धिरित्यर्थः ।

सुरभिश्चम्पके स्वर्णे जातीफलवसन्तयोः ।
सुगन्धौ च मनोज्ञे च वाच्यवत्सुरभिस्स्मृतः ॥

इति विश्वः । स्वैरः 'मन्दस्वच्छन्दयोस्स्वैरः' इत्यमरः । यः स्पर्शनो मलयमारुत इत्यर्थः । 'स्पर्शनो मारुते पुंसि दाने स्पर्शे नपुंसकम्' इति मेदिनी । तस्य लीलया विलासेन प्रसरणेनेति यावत् । आप्यायितसमस्तलोकः उभयत्र तुल्योऽर्थः । माधवः श्रीनिवास माधवाख्य ऋतुश्च यत् यस्मात् असि, तत् त्वां वसन्तं जानीमः । अयमुपात्त एव भवति नानुपात्तः अप्रसिद्धत्वात् । श्लेषेतरस्तु अनुपात्तश्चापि भवति यथा ‘मरकत-