पृष्ठम्:अलङ्कारमणिहारः.pdf/२६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
262
अलंकारमणिहारे

ष्वेव पद्येषु वाचकपरित्यागे तास्सर्वा अपि प्रतीयमाना भवन्तीति नात्र तद्विशेषाः प्रतायन्ते ॥

 धर्मस्वरूपोत्प्रेक्षा यथा--

 मन्ये भवत्कृपाया मोहमपारं फणीन्द्रशिखरिविधो । पापीयसोपि जन्तोः परमं श्रेयो ददाति याऽकस्मात् ॥ ४५४ ॥

 पापीयसोपि जन्तोः गृध्रादेरिति भावः । अत्र पूर्वार्धोत्प्रेक्षितमोहरूपधर्मसिद्धये द्वितीयार्धे आकस्मिकनिरतिशयश्रेयोदानमुपात्तम् ॥

 इदमत्रावधेयम्--उत्प्रेक्ष्यमाणेष्वपि यस्य विषयिण उत्प्रेक्षा विधेयतयाऽवभासते तदीयोत्प्रेक्षयैव व्यपदेशः प्राधान्यात् । तेन 'अच्छाच्छरुचिः' इति श्लोके सहस्रांशुगततया प्रमोदस्योत्प्रेक्षणेऽपि न तदुत्प्रेक्षया व्यपदेशो न्याय्यः । तस्या अङ्गत्वेनानुवाद्यत्वात् किंतु पञ्चम्यर्थोत्प्रेक्षया, तस्या एव नूनशब्दवेद्यत्वेन विधेयत्वात् । तथा ‘त्रैविक्रममिव विक्रमम्' इति पद्ये त्रैविक्रमविक्रमाभ्यसनोत्प्रेक्षयाऽपि व्यपदेशो न युक्तः किंतु शत्रर्थफलोत्प्रेक्षया । एवं ‘हृदयास्पदया’ इति ‘नाथ तव नाभिसरसि' इत्यादिपद्येषु न फलोत्प्रेक्षया व्यपदेशो युज्यते । नापि 'करपद्मेन' इति पद्ये सितकरबिम्बतादात्म्योत्प्रेक्षया तदुन्मीलितया करपद्मकर्तृकद्वेषहेतुकमध्यच्छिद्रीकरणपूर्वकप्रकोष्ठवयनकर्मतादात्म्योत्प्रेक्षया वा, पूर्वोक्तादेव हेतोः । एवमेव सर्वत्रापि 'प्रधानेन व्यपदेशा भवन्ति' इति न्यायात्प्रधानभूतोत्प्रेक्षयैव व्यपदेश इति । धर्मोपि तावदत्र द्विविधः--स्वत एव साधारणः, साधारणीकरणोपायेनासाधारणोपि साधारणीकृतश्च । स चोपायः क्वचिद्रूपकं