पृष्ठम्:अलङ्कारमणिहारः.pdf/२६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
261
उत्प्रेक्षासरः(१४)

ग्मम् । सहजोज्ज्वलमणिकुण्डलसंस्पर्शनतः प्रतीततामेति ॥ ४५३ ॥

 नन्वम्ब तव श्रवणयुग्मं कर्तृ स्वां कर्णतां कर्णशब्दवाच्यतां 'श्रोत्रराधेययोः कर्णः' इति रत्नमाला । अन्वर्थयितुं सहजं स्वजन्मसमये सहैव जातं उज्ज्वलं च, पक्षे निसर्गत एव देदीप्यमानं यन्मणिकुण्डलं सहजेनोज्ज्वलमिति समासः । तस्य संस्पर्शनतः वितरणात्, पक्षे अवमर्शात् । 'सहजस्तु निसर्गे ना सहोत्थे पुनरन्यवत्, स्पर्शनो मारुते पुंसि दाने स्पर्शे नपुंसकम्' इति च मेदिनी । प्रतीततां हृष्टतां एति शरीरेण सह जातमपि मणिकुण्डलमुत्कृत्य याचते द्विजवेषभाजे सुरराजे दत्वाऽपि नान्वतप्यत अपितु हृष्ट एवासीदिति तदौदार्यातिशयप्रशंसनम् ॥

 यद्वा--स्पर्शनतः दाने विषये, सप्तम्या आद्यादित्वात्तसिः । प्रतीततां सादरतामित्यर्थः.

याचतो मोदमादत्ते वाञ्छितादधिकप्रदः ।
अनुव्रज्य प्रियं ब्रूते तस्मात्कर्णस्तवाधिकः ॥

 इत्युक्तेरिति भावः । पक्षे प्रतीततां उक्तविधमणिकुण्डलस्पर्शनेन भूषिततामित्यर्थः । 'प्रतीतस्सादरे ज्ञाते हृष्टप्रख्यातयोस्त्रिषु, प्रतीतः प्रथिते हृष्टे परिज्ञाते विभूषिते' इति मेदिनीरत्नमाले । एति प्राप्नोति । अत एव कर्णशब्दान्वर्थनमिति भावः । महाभारते दानाय सहजकवचकुण्डलयोः कर्तनादेव हि राधेयस्य कृन्ततीति कर्ण इति नाम व्युत्पादितम् । अत्र कर्णतामन्वर्थयितुमिति फलोत्प्रेक्षायां वाचकमनुपात्तम् । एवं प्रागुदाहृते-