पृष्ठम्:अलङ्कारमणिहारः.pdf/२६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
257
उत्प्रेक्षासरः(१४)

श्यामाच्छबलं प्रपद्ये शबलाच्छयामम्' इत्यादिभिः अशंसि प्राशस्यत । अत्र नीलिमा गुणः फलत्वेनोत्प्रेक्ष्यते कलङ्कधारणं निमित्तमिति क्रियानिमित्तगुणफलोत्प्रेक्षा । एवं जात्यादिनिमित्ता अपि गुणफलोत्प्रेक्षा ऊहनीयाः ॥

 क्रियाफलोप्रक्षा यथा--

 त्रैविक्रममिव विक्रममभ्यस्यन्तः परं तटित्वन्तः । उद्दामानः प्रावृष्युज्जृम्भन्तेऽहिगिरिमुपर्युपरि ॥

 अभ्यस्यन्त इव अभ्यसितुमिवेत्यर्थः । ‘लक्षणहेत्वोः' इति शता । अर्जयन्वसतीत्यादाविव हेतुरिह फलम् । अहिगिरिमुपर्युपरि अहिगिरेस्समीपपरिप्रदेश इत्यर्थः । 'उपर्यध्यधसस्सामीप्ये' इति द्विर्भावः ‘धिगुपर्यादिषु त्रिषु' इति तद्योगे द्वितीया । अत्राभ्यस्यन्त इति क्रिया फलत्वेनोत्प्रेक्ष्यते । उज्जृम्भणक्रिया निमित्तमिति क्रियानिमित्ता क्रियाफलोत्प्रेक्षा । जात्यादिनिमित्ता अप्यमुयैव दिशा प्रतिपत्तव्याः ॥

 द्रव्यफलोत्प्रेक्षा यथा--

 सुरभिलवनमालामिलदलिकुलतो नाभिकमलपरिलग्नान् । दधदलिनो मधुदलनो धात्रेऽनन्ताय किं नु संनद्धः ॥ ४४६ ॥

 वनमालामिलदलिकुलात् नाभिकमले संलग्नान् संबद्धानित्यर्थः । अनेन अळिनां तदारुण्यसंक्रान्तिर्द्योत्यते । मधुदलनः मधुमथन इत्यर्थः । अनन्ताय धात्रे अनेकांश्चतुर्मुखान्निर्मातुमिति यावत् । अत्र धाता द्रव्यं फलतयोत्प्रेक्ष्यते । अळिधारणक्रिया

 ALANKARA
33