पृष्ठम्:अलङ्कारमणिहारः.pdf/२५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
253
उत्प्रेक्षासरः(१४)

रूपोत्प्रेक्षेति नियमदर्शनात् । तथाऽपि यदीह प्रतारुद्रदेवेन समुन्मूलितं अपरवज्रिणेवेत्यन्वयविवक्षया प्रतापरुद्रहेतुके क्ष्माभृत्पक्षविजृम्भितसमुन्मूलने अपरवज्रिहेतुकत्वसंभावनविषयत्वं प्रतिपिपादयिषितं तदा भवतीदं द्रव्यहेतूत्प्रेक्षाया अपि कथंचिदुदाहरणमिति तदाशय उन्नीयते । चित्रमीमांसारसगङ्गाधरकारौ तु ईदृशद्रव्यस्वरूपोत्प्रेक्षागन्धदविष्ठमेव पद्यं द्रव्यहेतूत्प्रेक्षायामुदाहरेताम् । तदनुरोधेन निस्संदिग्धमुदाहरणं तु ‘बलवानपि बहुपादोपि’ इति प्रागेवोपदर्शितमस्माभिरित्यलं बहुना ॥

 अथाभावाभिमानवत्यः-- तत्र जात्यभावहेतूत्प्रेक्षा यथा--

 गगनतले स्वप्रभया स्थगिते भानोरभावतो नूनम् । घनरुचिरुरसा कौस्तुभमिनकोटिरुचं वहत्यहिगिरीशः ॥ ४३७ ॥

 अत्र भानोर्जातेरभावः कौस्तुभधारणहेतुत्वेनोत्प्रेक्ष्यत इत्युपात्तक्रियानिमित्तजात्यभावहेतूत्प्रेक्षेयम् ॥

 यथावा--


 शौरेर्जययात्रोत्थैर्भूरेणुभरैर्मुहुः कबलितायाम् । द्युसरिति सलिलाभावान्मरुतां स्वपदे ध्रुवं मरुत्त्वमभूत् ॥ ४३८ ॥

 स्वपदे स्वस्थाने स्ववाचकपदे च मरुत्त्वं मरुभूमित्वं मरुच्छब्दत्वं च । आद्यपक्षे तकारस्य 'अनचि च' इति द्वित्वम् । ‘मरुतौ पवनामरौ, समानौ मरुधन्वानौ’ इति चामरः ।