पृष्ठम्:अलङ्कारमणिहारः.pdf/२५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
248
अलंकारमणिहारे

जन एव भवेत् । अभेदप्रतिपत्तौ तु अविचरता अकरचरणेनानङ्गेन च तेन तेन कथमस्याभेदस्संभवेदिति प्रतिकूलमतिमपनेतुं विषयिगतानां विचरत्त्वाद्यारोपाणामस्त्येवोपयोगः । अत्रैव इवशब्दस्याभावे दृढारोपं रूपकम् । विषयिगतविशेषणानामभावे उपमा । इवशब्दविशेषणयोरेकतरस्याप्यभावे शुद्धरूपकमिति विवेकः ॥

 एवं जात्यादिभावाभावस्वरूपोत्प्रेक्षाः दिङ्मात्रेणोदाहृताः । अथ हेतूत्प्रेक्षा । तत्र जातिभावे हेतूत्प्रेक्षा यथा--

 वृषगिरिनेतुर्मणिमयसौधेनेवोरसाऽब्धिराजसुता । विस्मारिता निवासं मकरन्दपरागपङ्किले कमले ॥ ४३० ॥

 अत्र सौधेनेति जातिः कमलनिवासविस्मरणं प्रति हेतुत्वेनोत्प्रेक्ष्यते तदेवोत्प्रेक्ष्यमाणहेतोर्निमित्तमित्युपात्तगुणनिमित्ता जातिभावहेतूत्प्रेक्षा । हेतुफलयोरुत्प्रेक्षाविषयत्वे निमित्तस्योपादानमेव, न त्वनुपादानम् । तथाहि--साध्ये अनुपात्ते साधनत्वेन निर्देशो नान्वयं पुष्णाति तथा साधने अनुपात्ते साध्यत्वेन निर्देशोऽपि । तयोरितरेतरसापेक्षत्वात् हेतूत्प्रेक्षायां हि निमित्तं फलम् । तस्यानुपादाने कं प्रति हेतुता संगच्छताम् । फलोत्प्रेक्षायां हि साधनं निमित्तम्, तस्मिन्ननुपात्ते कं प्रति फलत्वं संघटताम् । एवं च निमित्तनैमितिकयोरन्यतरोपादानेऽन्वयपरिपोषविरहादुभयोपादाननियमे निमित्तोपादानं नियतमेवेत्यवधेयम् । तथाच उदाहृतेऽस्मिन्पद्ये उत्प्रेक्षाया निमित्तस्य कमलनिवासविस्मारणस्यानुपादाने सौधेनेति हेतूत्प्रेक्षा न शोभते ।