पृष्ठम्:अलङ्कारमणिहारः.pdf/२५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
247
उत्प्रेक्षासरः(१४)

न्दे अकृतकिञ्चिच्चलने परिरमति परितो विहरति सति । ‘व्याङ्परिभ्यो रमः' इति परस्मैपदम् ॥

 यथा वा--

 तावकमहसेवनमिळदनवधिजनचरणहतिजरेणुनिभात् । धरयोर्ध्वं विसृमरया विगगनमिव खगगिरीश जगदासीत् ॥ ४२८ ॥

 मह: उत्सवः 'मह उद्धव उत्सवः' इत्यमरः । अदन्तोऽयम् । रेणुनिभात् परागव्याजात् । खगगिरिरिति शेषाद्रेरेव नामान्तरम् । अत्र विगगनमिति द्रव्याभावोत्प्रेक्षायां रेणुव्याजेनोत्सृत्वरी भूमिर्द्रव्यं निमित्तमुपात्तम् ॥

 एषा मालारूपाऽपि संभवति, यथा--

 मरकतमणिरिव विचरन् करचरणमनोहरोऽम्बुराशिरिव । स्फुरदङ्ग इवानङ्गो व्रजभुवि विजहार यदुकुलकुमारः ॥ ४२९ ॥

 अत्र भगवद्गतानां संचारित्वादीनां मरकतादितादात्म्यविरोधिनां विरोधोपशमाय विषयिषु मरकतादिष्वारोपेण साधारणीकरणम् । न चेहोपमा शक्या निरूपयितुम्, विचरत्त्वादीनामुक्तेर्नैष्फल्यापत्तेः । न चोपमानिष्पादकं तेषां साधारण्यं तदभावेऽपि नैल्यादिभिर्धर्मैः प्रतीयमानैस्तस्या निष्पत्तेरचारुत्वादुपमानिष्पादकत्वेन कवेरविवक्षितत्वाच्च । न ह्यत्र विचरत्त्वादिभिर्धर्मैर्मरकतादिसादृश्यं भगवतः कविसंरम्भविषयः । एवं विचरत्त्वादीनां मरकतादिष्वारोपोऽपि सत्यामुपमायां निष्प्रयो-