पृष्ठम्:अलङ्कारमणिहारः.pdf/२५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
246
अलंकारमणिहारे

 अत्र निस्पन्द इति क्रियाऽभावोत्प्रेक्षाया निर्वर्णनरूपक्रियात्मकं निमित्तमुपात्तम् । निस्पन्द इत्यत्र सस्य न षत्वम् । अषोपदेशत्वेन तदप्राप्तेः । तथाच वामनः–‘निष्पन्द इति षत्वं चिन्त्यं लक्षणादर्शनात्’ इति । लक्षणं शास्त्रमिति । हंससन्देशरसास्वादिन्यां 'दत्तनिस्पन्ददृष्टिः' इत्यस्य व्याख्यानावसरे निरूपितमस्माभिः ॥

 एवमुपात्तजातिगुणद्रव्यरूपनिमित्ताः अनुपात्तनिमित्ताश्च क्रियाऽभावस्वरूपोत्प्रेक्षा अप्युदाहार्याः ॥

 द्रव्याभावस्वरूपोत्प्रेक्षा यथा--

 विशदयताऽखिलभुवनं यशसा भुजगेशशिखरिशेखर ते । अशशाङ्कमिवाकाशं न कलङ्की भाति भात्यपकलङ्के ॥ ४२६ ॥

 अपकलङ्के निष्कलङ्के भाति सति कलङ्की न भातीति योजना । अत्राशशाङ्कमिति द्रव्याभावोत्प्रेक्षायां यशसेति जातिर्निमित्तमुपात्तम् । यशसो गुणत्वविवक्षायां इयमुपात्तगुणनिमित्तेति ध्येयम् ॥

 यथा वा--

 सत्यज्ञानानन्दे नित्यं वृषशैलशिखरतोऽस्पन्दे । परिरमति रमावासे परमपदं भवति नूनमब्रह्म ॥

 अत्र परमपदे अब्रह्मत्वमुत्प्रेक्ष्यत इति द्रव्याभावस्वरूपोत्प्रेक्षेयं वृषशैलाधिकरणकपरिरमणक्रियारूपनिमित्तोपादानादुपात्तनिमित्ता । ब्रह्म द्रव्यं एकत्वात् । वृषशैलशिखरतः अस्प-