पृष्ठम्:अलङ्कारमणिहारः.pdf/२४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
242
अलंकारमणिहारे

 अथ द्रव्यभावोत्प्रेक्षा--
 तत्र उपात्तजातिनिमित्तकद्रव्यभावोत्प्रेक्षा यथा--

 भगवति मधुरिपुमहिळे भवतीमुखमस्य संमुखीनेन । द्रवता विधुकान्तेन स्वान्ते संतर्कयेत को नेन्दुम् ॥ ४१६ ॥

 अस्य मुखस्य सम्मुखीनेन अभिमुखावस्थायिना द्रवता दयार्द्रेण रागद्रुतहृदयेन वा पक्षे जलस्राविणा । विधुकान्तेन विधुर्भगवानेव कान्तः वल्लभः तेन । पक्षे--

अमृतांशुकरस्पर्शाद्यत्क्षरत्यमृतं क्षणात् ।
चन्द्रकान्तं तदाख्यातं दुर्लभं स्यात्कलौ युगे ॥

इति स्कान्दोक्तलक्षणश्चन्द्रकान्तमणिः तेन । अत्र मुखरूपजातौ इन्दुरूपद्रव्यतादात्म्योत्प्रेक्षणे श्लेषकल्पिताभेदश्चन्द्रकान्तमणिरूप जातिर्निमित्तमुपात्तम् ॥

 उपात्तगुणनिमित्तकद्रव्यभावोत्प्रेक्षा यथा--

 करचरणाद्यवयववत् स्फुरदाकाशं विनीलमहिशैले । उदितं ब्रह्म विजाने यदिदमनन्तं वदन्ति निगमान्ताः ॥ ४१७ ॥

 अत्र श्रीनिवासे परब्रह्मणि द्रव्ये नीलत्वानन्तत्वगुणनिमित्तकमाकाशरूपद्रव्यतादात्म्योत्प्रेक्षणम् । आकाशस्य एकत्वादिदं द्रव्यम् । निगमान्ताः ‘सत्यं ज्ञानमनन्तं ब्रह्म' इत्याद्या उपनिपदः । अनन्तं त्रिविधपरिच्छेदरहितं ब्रह्म । पक्षे अन्तरिक्षं