पृष्ठम्:अलङ्कारमणिहारः.pdf/२४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
241
उत्प्रेक्षासरः(१४)

मानाधिकरणप्रवयनकर्मत्वरूपधर्मस्य विषयगतत्वसिद्धये अनुवाद्यतया मौक्तिकवलयतादात्म्यमनुपात्तधावळ्यनिमित्तकमुत्प्रेक्ष्यते । तत्र यथा विशिष्टोपमायामुपमानोपमेयविशेषणानामार्थमौपम्यं एवमत्रापि विषयभूतमौक्तिकवलयविशेषणस्य प्रवयनस्य मूलोत्प्रेक्षाविषयिभूतसितकरबिम्बविशेषणेन प्रवयनेनाभेद आर्थः । ततश्च सितकरबिम्बकर्मकप्रवयने सिद्धे मुख्योत्प्रेक्षा निर्व्यूढा भवति । क्रन्दनशिञ्जनयोरपि बिम्बप्रतिबिम्बभावेनाभेदः । तेन प्रकोष्ठकप्रोतशिञ्जदभिन्नो मौक्तिकवलयः प्रकोष्ठकप्रोतसितकरबिम्बाभिन्नः क्रन्दनक्रियानुकूलव्यापारवानिति बोधप्रकारः । आख्याते भावनाप्राधान्ये तु अभेदेन क्रोशनक्रियोत्प्रेक्षा । तत्र शाब्दवृत्तौ वलयविशेषणतया प्रतीयमानमपि शिञ्जनं संभावनाविषयतयाऽवतिष्ठते अध्यवसानवशात् । क्रन्दनक्रियायां च तादृशवलयो विशेषणम् । तादृशवलये चाभेदेन तादृशसितकरबिम्बम् । न तु सितकरबिम्बमेव साक्षात्क्रियायाम् । तथा सति वलयस्यानन्वयापत्तेः । विषयिविषयविशेषणयोः प्राग्वदेव बिम्बप्रतिबिम्बभावेनाभेदप्रतिपत्तिरिति ॥

एवं क्रियाभावस्वरूपोत्प्रेक्षामार्गः प्रदर्शितः ॥

 अनुपात्तनिमित्तकक्रियाभावस्वरूपोत्प्रेक्षा यथा--

 तत्तादृशि फणिशिखरिणि क्लप्तावसथस्य कस्यचिद्धाम्नः । स्मरणं तदीयमूर्तेश्चित्ते मम वज्रलेपमिव दत्ते ॥ ४१५ ॥

 अत्र वज्रलेपनदानक्रियोत्प्रेक्षायां अविश्लेषेण संनिधापनं निमित्तं नोपात्तम् ॥

 ALANKARA
31