पृष्ठम्:अलङ्कारमणिहारः.pdf/२४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
237
उत्प्रेक्षासरः(१४)

बहिरुद्गतं तत्रानवकाशाद्बहिरुत्सृत्वरमित्यर्थः । पीतं गुणं विजाने उत्प्रेक्षे । अत्र कनकवसने जातौ पीतगुणस्तादात्म्येनोत्प्रेक्ष्यते । तत्र उज्ज्वलत्वं गुण उपात्त इत्युपात्तगुणनिमित्तकगुणभावस्वरूपोत्प्रेक्षेयम् ॥

 यथा वा--

 मधुरतमां सर्वेषां महागसां मज्जनाय सुनिषेव्याम् । जाने तव करुणां श्रीजाने स्वामिंस्त्वदीयपुष्करिणीम् ॥ ४०५ ॥

 मधुरतमां अतिप्रियां अतिस्वाद्वीं च ‘स्वादुप्रियौ तु मधुरौ' इत्यमरः । महत् आगः पापं येषां ते तथोक्तानां ‘पापापराधयोरागः' इत्यमरः । सर्वेषां सर्वैर्जनैरित्यर्थः । ‘कृत्यानां कर्तरि वा’ इति कर्तरि षष्ठी । मज्जनाय स्नानार्थं सुनिषेव्याम् । अन्यत्र महतां आगसां अपराधानां मज्जनाय अदर्शनायेति यावत् । सर्वेषां अखिलैरपराधिजनैरित्यर्थः । सुनिषेव्यां सुखेन सेवनीयाम् ! अत्र स्वामिपुष्करिणीरूपद्रव्ये करुणारूपगुणतादात्म्यसंभावनायां श्लेषोत्तम्भितो माधुर्यगुणः सेव्यत्वरूपक्रिया च निमित्ते उपात्ते इति विशेषः ॥

 एवं जात्यादिनिमित्तकगुणभावस्वरूपोत्प्रेक्षा अप्युदाहार्याः.

 अनुपात्तनिमित्तकगुणभावस्वरूपोत्प्रेक्षा यथा--

 ऊर्ध्वप्रसरनिरोधकसरोजबान्धवविलोकनक्रोधात् । आरुण्यमिवोद्भिन्नं फणिशिखरिशिखासु मणिकुलं कनति ॥ ४०६ ॥