पृष्ठम्:अलङ्कारमणिहारः.pdf/२४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
236
अलंकारमणिहारे

माणे विषयिणि सिद्धत्वान्निश्चलत्वस्य निष्पादनाय निरवधिपरिमळलोभः नासाचम्पकनिभालनभयं चेत्येतदुभयं हेतुत्वेनोत्प्रेक्षितम् । इहापि पूर्ववत्स्वाभाविककल्पितयोरभेदाध्यवसानात्साधारण्यम् । पूर्वं हि यथा फलस्योत्प्रेक्षणेऽपि न फलोत्प्रेक्षा तथेहापि हेतोरुत्प्रेक्षणे न हेतूत्प्रेक्षेति ध्येयम् ॥

 यथा वा--

 चिबुके विसृत्वरास्तव हारलताघृणिशिखा जननि भान्ति । ह्रीनमितमुखोन्नमनप्रसारिता इव तदीयकरशाखाः ॥ ४०३ ॥

 अत्र हारलताकिरणशिखारूपजातौ अङ्गुळिरूपजात्यवच्छिन्नतादात्म्यसंभावना । तत्र च अनुपात्तस्यौज्ज्वल्यस्य धर्मस्य उपात्तयोः विसृत्वरत्वप्रसारितत्वयोर्धर्मयोर्वस्तुप्रतिवस्तुभावापन्नयोरभेदाच्च विषयविषयिसाधारण्यम् । अन्यत्सर्वं पूर्ववदेव । एवमन्यत्राप्यूह्यम् ॥

एवं जातिभावस्वरूपोत्प्रेक्षा दिगुदाहृता ॥

 तदात्म्येन गुणभावस्वरूपोत्प्रेक्षा यथा--

 नीलगुणेनाक्रान्ते सुवर्णवर्णस्य तव वपुषि शौरे । बहिरुद्गतं विजाने पीतं गुणमुज्ज्वलं कनकवसनम् ॥ ४०४ ॥

 हे शौरे! तव कनकवसनं सुवर्णवर्णस्य ‘आप्रणखात्सर्व एव सुवर्णः । रुक्माभं स्वप्नधीगम्यम्’ इत्यादिश्रुतिस्मृतिभिस्सुवर्णवर्णत्वेनोक्तस्य तव वपुषि नीलगुणेन आक्रान्ते सति