पृष्ठम्:अलङ्कारमणिहारः.pdf/२४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
235
उत्प्रेक्षासरः(१४)

तये । हृदयगकौस्तुभलम्बीकृता भुजयुगीव भाति हारलता ॥ ४०१ ॥

 अत्रापि हारलतायां जातौ भुजयुगीत्वजात्यवच्छिन्नं तादात्म्येन संभाव्यते । तत्र च लम्बत्वप्रकाशवत्त्वयोर्धर्मयोर्निमित्ततानिर्वृत्तये विषयिभूतकौस्तुभभुजयुगीगतत्वमवश्यसंपाद्यम् । तयोर्मध्ये अनुपात्तस्य प्रकाशवत्त्वस्य कौस्तुभानुबन्धित्वेनैव भुजयुगीगतत्वं संपन्नम् । लम्बत्वस्यापि तद्गतत्वसंपादनाय भगवन्नाभीसरसीनिमग्ननिजस्वसृरमामानसोद्धरणं फलत्वेनोत्प्रेक्षितम् । एवंच विषयिगततादृशोद्धरणफलकलम्बत्वेन विषयगतस्य स्वाभाविकलम्बत्वस्याभेदाध्यवसायमूलकातिशयोक्त्या साधारण्ये संपन्ने निमित्तत्वं निष्पद्यते । अन्यत्सर्वं पूर्वतरोदाहरणवदेव । इयमप्युपात्तानुपात्तक्रियागुणात्मकनिमित्ता निष्पाद्यविशिष्टशरीरा जात्युत्प्रेक्षैव, कौस्तुभभुजयुगस्य कविनैव निष्पादितत्वादिति ॥

 यथा वा--

 निरवधिपरिमळलोभान्नासाचम्पकनिभालनभयाच्च । मृगमदतिलको माधववदनाब्जे निश्चलः किल भ्रमरः ॥ ४०२ ॥

 निभालनं दर्शनम् । अत्रापि नैश्चल्यविशिष्टे श्रीनिवासकस्तूरीतिलके जातौ विषये नैश्चल्यविशिष्टभ्रमरजात्यवच्छिन्नस्य तादात्म्येनोत्प्रेक्षणम् । तत्र तिलकरातस्य नैश्चल्यस्य भ्रमरगतत्वमन्तरेण तिलकभ्रमरयोरभेदस्य दुरुपपादतया तत्सिद्ध्यर्थं तस्य विषयगतत्वं साध्यम् । तत्र नैल्यस्यानुपात्तस्य उत्प्रेक्ष्य