पृष्ठम्:अलङ्कारमणिहारः.pdf/२४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
234
अलंकारमणिहारे

मित्तोत्तम्भितायां स्वरूपोत्प्रेक्षायामेव विधेयत्वेन चमत्कृतेर्विश्रमात् उत्प्रेक्षाप्रतिपादकस्य किलशब्दस्य फलेनानन्वयाच्च तयैवात्र व्यपदेशो युक्तः । अनिगीर्णविषया चेयमुपात्तानुपात्तक्रियागुणात्मकनिमित्ता निष्पाद्यविशिष्टशरीरा तादात्म्योत्प्रेक्षा । लक्ष्मीभुजयुगळ्यास्स्वतस्सिद्धत्वेऽपि प्रसारितत्वविशिष्टायास्तस्याः कविनैव निष्पादितत्वात् ॥

 यथा वा --

 सोदरकमलालालनमोदगळत्कौस्तुभाश्रुभरबिन्दून् । धाराकारान् शौरेर्हारानानाभिलम्बिनो मन्ये ॥ ४०० ॥

 अत्र शौरिहारे जातौ तद्वक्षस्स्थलावस्थितकौस्तुभानन्दबाष्पबिन्दुत्वजात्यवच्छिन्नस्य तादात्म्येनोत्प्रेक्षणम् । तत्र च धाराकारत्वानाभिलम्बित्वथाळथळ्यानां धर्माणां निमित्तत्वनिष्पत्त्यै विषयिकौस्तुभानन्दबाष्पबिन्दुगतत्वसंपादनमावश्यकम् । तेषां च मध्ये अनुपात्तस्य थाळथळ्यस्यानन्दबाष्पसंबन्धितयैव तद्बिन्दुगतत्वं संपन्नम् । अन्ययोर्धाराकारत्वलम्बित्वयोरपि संपादनाय सोदरकमलालालनमोदगळत्त्वं हेतुत्वेन संभावितम् । एवं च विषयिगततादृशगळनहेतुकधाराकारत्वलम्बत्वाभ्यां विषयगतयोस्स्वाभाविकधाराकारत्वलम्बत्वयोरभेदाध्यवसानमूलातिशयोक्त्या सत्यां साधारण्यसंपत्त्यां स्यान्निमित्तता । उक्तविषया चेयमुपात्तानुपात्तक्रियागुणनिमित्ता निष्पाद्यविशिष्टशरीरा जात्युत्प्रेक्षा, कौस्तुभाश्रुबिन्दूनां कविनैव निष्पादितत्वात् ।

 यथा वा--

 नाथ तव नाभिसरसीमग्ननिजस्वसृरमाहृदुद्धृ-