पृष्ठम्:अलङ्कारमणिहारः.pdf/२३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
233
उत्प्रेक्षासरः(१४)

 एवं शुद्धा उपात्तनिमित्तका अनुपात्तनिमित्तका अपि जातिभावस्वरूपोत्प्रेक्षाः प्रदर्शिताः ॥

 अथ मिश्रास्ता उदाह्रियन्ते--

 हृदयास्पदया रमया प्रसारिता नाभिकमलगं स्वसुतम् । उद्वोढुं भुजयुगळी किल शौरेर्भाति यष्टिरालम्बा ॥ ३९९ ॥

यष्टिर्नाम-

एकावळी नाम यथेष्टसंख्या हस्तप्रमाणा मणिभिः प्रयुक्ता ।
संयोजिता या मणिना तु मध्ये यष्टीति सा भूषणविद्भिरुक्ता ॥

 इति वराहमिहिरोक्तलक्षण एकावळ्यपरनामधेयो मुक्ताहारविशेषः । आलम्बत इत्यालम्बा लम्बमानेत्यर्थः । अत्र भगवतो हारयष्ट्यां जातौ तद्वक्षस्स्थलावस्थितलक्ष्मीसंबन्धिभुजत्वजात्यवच्छिन्नस्तादात्म्येनोत्प्रेक्ष्यते । तत्र च हारयष्टिगतानां लावण्यप्रसारितत्वलम्बत्वानां धर्माणां निमित्ततानिष्पत्तये विषयिलक्ष्मीभुजयुगळीगतत्वमवश्यं संपादनीयम् । तेषां च मध्ये अनुपात्तस्य लावण्यस्य जक्ष्मीदिव्यविग्रहसंबन्धित्वादेव भुजयुगळीगतत्वं संपन्नम् । इतरयोरपि संपादनाय भगवन्नाभीकमलगतस्वसुतचतुराननसमुद्वहनं फलमुत्प्रेक्षितम् । तत्साधनताज्ञानस्य प्रसारितत्वलम्बत्वानुकूलयत्नजनकत्वात् । एवं च विषयगतताद्दशोद्वहनफलकप्रसारितत्वलम्बत्वाभ्यां विषयगतयोस्स्वाभाविकप्रसारितत्वलम्बत्वयोरभेदाध्यवसानातिशयोक्त्या साधारण्यसंपत्तौ सत्यां निमित्तता भवति । न चात्र फलस्याप्युत्प्रेक्षणात्फलोत्प्रेक्षेति युक्तं वक्तुम्। उत्प्रेक्ष्यमाणफलनिष्पादितनि-

 ALANKARA
30