पृष्ठम्:अलङ्कारमणिहारः.pdf/२३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
228
अलंकारमणिहारे

हेतूत्प्रेक्षावदेव । फलस्य च प्रयोजकतासंसर्गेण कौस्तुभधारणे स्वप्रयोजकाश्रयतासंबन्धेन तदाश्रये वाऽन्वयः । तत्तादात्म्यसंसर्गकसंभावनायाश्शौरौ विषयतया । एवंच तमोऽवसादनाभिन्नफलककौस्तुभवहनाश्रयसंभावनाविषयश्शौरिरिति बोधः। एवं तुमुन्नन्तस्थले फलं तुमुनोऽर्थः बोधस्तु तुल्य एव । फलोत्प्रेक्षात्वं चोक्तरीत्योपपादनीयमिति दिक् । एवं कुवलयानन्दानुसारेण उत्प्रेक्षायाष्षड्विधत्वं दर्शितम् ॥

 प्राचां मते तु--उत्प्रेक्षा तावद्द्विविधा, वाच्या प्रतीयमाना च । इव नूनं शङ्के संभावयामि मन्ये जाने तर्कये ऊहे उत्प्रेक्षे अवैमि प्रत्येमि वेद्मि ध्रुवं प्रायः किलेत्यादिभिः प्रतिपादकैश्शब्दैस्सहिता यत्र संभावनासामग्री तत्रोत्प्रेक्षा वाच्या । यत्र च प्रतिपादकशब्दरहितं सामग्रीमात्रं तत्र प्रतीयमाना । यत्र तत्सामग्रीविधुरं प्रतिपादकशब्दमात्रं तत्र संभावनामात्रमेव नोत्प्रेक्षा । सापि प्रत्येकं त्रिधा--स्वरूपोत्प्रेक्षा हेतूत्प्रेक्षा फलोत्प्रेक्षा चेति। तत्र जातिगुणक्रियाद्रव्यरूपाणां तदभावरूपाणां च पदार्थानां तादात्म्येनेतरेण वा संबन्धेन जातिगुणक्रियाद्रव्यात्मकैर्व्येस्तैस्समुच्चितैः उपात्तैरनुपात्तैः निष्पन्नैः निष्पाद्यैर्वा निमित्तभूतैर्यथासंभवं जातिगुणक्रियाद्रव्यात्मकेषु विषयेषूत्प्रेक्षणं स्वरूपोत्प्रेक्षा । तत्राभेदेन संसर्गेण धर्मिस्वरूपोत्प्रेक्षा, संसर्गान्तरेण धर्मस्वरूपोत्प्रेक्षा चोच्यते । उक्तविधेषु पदार्थेषु प्रागुक्तप्रकाराणां पदार्थानां तथाविधैरेव निमित्तैर्यथासंभवं हेतुत्वेन फलत्वेन च संभावनं हेतूत्प्रेक्षा फलोत्प्रेक्षा चोच्यते । एताश्च क्वचिन्निष्पन्नशरीराः क्वचिन्निष्पादनीयशरीराश्चेत्येवमाद्यनल्पविकल्पास्संपद्यन्ते । तत्र दिङ्मात्रं प्रपर्श्यते ॥ तत्र उपात्तजातिनिमित्तकजातिभावस्वरूपोत्प्रेक्षा यथा--