पृष्ठम्:अलङ्कारमणिहारः.pdf/२३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
227
उत्प्रेक्षासरः(१४)

कारतासंबन्धेन संभावनायां तस्याश्च विषयतया हरावन्वयः । तथाचाञ्जनगिर्यधिकरणकसततासञ्जनाभिन्नहेतुकासितप्रकारकसंभावनाविषयो हरिरिति बोधः । न च तादात्म्यसंबन्धेन हेतु विधेयकत्वाभावान्नेयं हेतूत्प्रेक्षा स्यात् । किंतु तादात्म्येन तथाविधासितस्वरूपोत्प्रेक्षैवेति वाच्यम् । विवक्षितविवेचनयाऽञ्जनगिरिसततासञ्जने हेत्वभेदस्योत्प्रेक्षणीयतया सततासञ्जनं प्रति विशेष्यभूतस्यापि हेतोर्विधेयत्वाभ्युपगमात् । मुखचन्द्र इति रूपक इवानुयोगित्वमुखस्याभेदस्य सततासञ्जनसंसर्गत्वाभ्युपगमेन च सततासञ्जने हेत्वभेदभानसंभवात् । हेतुविशिष्टस्वरूपोत्प्रेक्षाया मुखतः प्रतीयमानत्वेऽपि विवक्षावशेन हेतूत्प्रेक्षात्वेनैव व्यपदेशः । यथा ‘दध्ना जुहोति' इत्यत्र मुखतो दधिविशिष्टहोमप्रतीतावपि विवक्षितविवेचनया होमे दधिविधित्वव्यपदेश इति ज्ञेयम् । न च स्वप्रयोज्यत्वसंबन्धेन स्वप्रयोज्याश्रयत्वसंबन्धेन वा हेतुरूपधर्मोत्प्रेक्षैव असितपदार्थे स्वीक्रियतां किमेतादृशकल्पनायासेनेति वाच्यं, धर्मोत्प्रेक्षाभ्युपगमे दूषणस्य पूर्वमेवोदीरितत्वात् । अत एव हर्षाल्लग्ना मन्ये ललिततनु ते पादयोः पद्मलक्ष्मीः' इति हेतूत्प्रेक्षामुदाहृतवतः काव्यप्रकाशकृतोऽपि तत्र हर्षहेतुकलगनतादात्म्यसंभावनमेव स्वाभाविके लगनेऽभिमतम् । अस्मदुक्तरीत्या तु लक्ष्मीरूपे विषये यथोक्तहर्षहेतुकलग्नतादात्म्यसंभावनमुचिते लगनस्य धर्म्युपसर्जनत्वेन संभावनायामन्वयायोगादिति दिक् । एवमुदाहृतासिद्धविषयहेतूत्प्रेक्षायामपि द्रष्टव्यं, विषयस्य सिद्धत्वासिद्धत्वाभ्यां बोधे विशेषाभावादित्यलम् ॥

 विनतानां जनतानामिति फलोत्प्रेक्षोदाहरणे तमसामवसादनायेति चतुर्थ्यर्थः फलम् । तत्र चाभेदेन प्रकृत्यर्थान्वयो