पृष्ठम्:अलङ्कारमणिहारः.pdf/२२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
223
उत्प्रेक्षासरः(१४)

 वैजयन्तीं विजयपताकां वनमालां च । अत्र भगवत लक्ष्मीनिलयभूते निजहृदये वनमालाऽभिन्नत्वेनाध्यवसिताया वैजयन्तीशब्दवाच्याया जयपताकाया बन्धनं प्रति स्वस्यापि श्रिया विजितत्वाभिव्यञ्जनं न फलमिति तस्य फलत्वेन संभावना उक्तफलस्यासिद्धत्वादसिद्धविषया फलोत्प्रेक्षा । इयं रूपकश्लेषाभ्यामुत्तम्भिता । पूर्वा तु रूपकसंकीर्णेति भिदा ॥

 यथा वा--

 लक्ष्मीजयकेतनतामात्मीयोरस्स्थलस्य विशदयितुम् । बध्नासि वैजयन्तीं बहुवर्णां तत्र नूनमब्जाक्ष ॥ ३८६ ॥

 हे अब्जाक्ष! आत्मीयोरस्स्थलस्य लक्ष्म्याः जयकेतनतां विजयध्वजयष्टितां केतनशब्दोऽत्र ध्वजयष्टिवाची । पक्षे विजयगृहत्वम् । ‘केतनं तु ध्वजे कार्ये निमन्त्रणनिवासयोः' इत्यजयः । विशदयितुं नूनं तत्र विजयकेतनभूते आत्मीयोरस्स्थले बहुवर्णां विचित्रां, पक्षे-- 'पञ्चवर्णा तु या माला वैजयन्ती गदाभृतः' इत्युक्तवर्णां वैजयन्तीं पताकां वैजयन्तीशब्दोऽत्र ध्वजपटीवाचकः । बध्नासि । यद्यपि 'पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम्' इति पताकादयश्चत्वारोऽपि शब्दा ध्वजपर्यायतया सुधादौ व्याख्याताः । तथाऽपि पताकावैजयन्तीशब्दयोर्ध्वजपटीवाचित्वं केतनध्वजशब्दयोस्तद्यष्टिवाचित्वं चावश्याभ्युपेयं, तथैव प्रसिद्धेः । अन्यथा ‘पताकाध्वजमालिनम्, चञ्च्वग्रदष्टचटुलाहिपताकयाऽन्ये स्वावासभागमुरगाशनकेतुयष्ट्या, प्रभावनीकेतनवैजयन्तीः' इति श्रीरामायणमाघकाव्यादिषु भूयस्सु प्रदेशेषु पताकाध्वजादिशब्दानां सहप्रयोगो विरुध्येत । न हि घटकलशा-