पृष्ठम्:अलङ्कारमणिहारः.pdf/२२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
222
अलंकारमणिहारे

 सिद्धविषया फलोत्प्रेक्षा यथा--

 विनतानां जनतानां तमसामवसादनाय किल शौरे । शस्तघृणिं कौस्तुभमणिमरुणांशुसहस्रनिभमुरसि वहसि ॥ ३८३ ॥

 अत्र कौस्तुभमणिधारणं प्रत्यफलस्यापि तमोऽवसादनस्य तत्फलत्वेन संभावना सिद्धविषया फलोत्प्रेक्षा ।

<poem>::तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।

नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥}}

इत्युक्तप्रकारेण भगवतस्तमोऽवसादनस्य स्वतस्सिद्धत्वात् ॥

 असिद्धविषया फलोत्प्रेक्षा यथा--

 सोदरसुधानिरन्तरसादरसहवासकुतुकपरिपूर्त्यै । काकोदरगिरिनाथः कमलायै स्मितसुधां व्यनक्ति किल ॥ ३८४ ॥

 किलेत्युत्प्रेक्षाव्यञ्जकम् । अत्र भगवता लक्ष्मीं प्रति स्मितसुधाया व्यञ्जनस्य सोदरसुधानिरन्तरसादरसहवासकुतुकपरिपूर्तिर्न फलमिति तस्याः गगनारविन्दायमानायास्तत्फलत्वेन संभावना असिद्धविषया फलोत्प्रेक्षा ॥

 यथा वा--

 अहमपि विजितोऽस्म्यनया रमयेति व्यञ्जनाय किल भगवन् । तन्निलये निजहृदये भान्तीं बध्नासि वैजयन्तीं त्वम् ॥ ३८५ ॥